शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः
उवाच करुणामूर्तिररुणाद्रीशमानमन् ब्रह्मोवाच श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम्
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत्
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम्
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम्
प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् 1.3.1.3.
पार्वतीसिंहसंचारपरित्रस्तमहागजम्
आसेवितपुरोरंगं दिक्पालकनिषेवितम्
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम्
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः
घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः
अलंचकार भगवन्भक्तानुग्रहकाम्यया
अंबिकासहितः श्रीमान्विजहार दयानिधिः
गणानां विकटैर्नृत्यै रमयामास पार्वतीम्
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान्
विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु 1.3.1.3.
केलिपर्वतशृंगेषु हेमरंभावनांतरे
वातेन मंदगतिना विहारविहतश्रमः
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम्
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम्
पिदधे लीलया शंभोः किमेतदिति कौतुकात्
अन्धकारोऽभवत्तत्र चिरकालं भयंकरः
देवीलीलासमुत्थेन तमसाभूज्जगत्क्षयः
शून्यं ज्योतिः प्रचारेण विनाशं प्रत्यपद्यत
नापि जीवाः समभवन्नव्यक्तं केवलं स्थितम्
तपसा लब्धस्फूर्तीनां विचारः समपद्यत 1.3.1.3.
भगवानपि सर्वात्मा न नूनं कालमाक्षिपत्
तेनेदमखिलं जातं निस्तेजो भुवनत्रयम्
का गतिर्लब्धराज्यानां तपसो देवजन्मनाम्
इति निश्चित्य मनसा वीक्ष्य ते ज्ञानचक्षुषा