अकार्यं कारितो येन बलादहमनिंदिते
महाकालवने पुण्ये लिंगं रूपप्रदायकम्
तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि
इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये
ददर्श परया भक्त्या स च राजा नरोत्तमः दिव्यवस्त्रपरीधाना दिव्यालंकारभूषिता ।। 5.2.62.
स च राजा तथा जातः कंदर्पसदृशाकृतिः
अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये
स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम्
राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति
विमानेन सुदीप्तेन वंद्यमानो दिवालये
ये पश्यंति विशालाक्षि देवं रूपेश्वरं शिवम्
सदा रूपकरं लिंगं भुक्तिमुक्तिफलप्रदम्
येऽर्चयंति नरा नित्यं देवं रूपेश्वरं परम्
स एव सुकृती लोके कुलं तेनाप्यलंकृतम्
यः पूजयति देवेशं प्रसंगादपि पार्वति 5.2.62.
एष ते कथितो देवि प्रभावः पापनाशनः ।। रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः
त्रिषष्टिसंख्यकं दिव्यं दर्शनात्पापनाशनम्
विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि
एकदा तु वनं यातो मृगयां स विदूरथः
तं दृष्ट्वा चिंतयामास किमेतदिति पार्थिवः
चिंतयन्निव तत्रासौ ददर्श विजने वने
स तं पप्रच्छ नृपतिः किमेतदिति भो द्विज
कुजंभोनाम विख्यातो भिनत्ति वसुधामिमाम्
तमजित्वा कथं राज्यं भोक्ष्यसे वसुधाधिप
उपद्रुतास्तथा देशा ध्वस्ताश्चैव तथाश्रमाः
यदि त्वं घातयस्येनं पातालांतरगोचरम् 5.2.63.
इति विप्र वचः श्रुत्वा मंत्रयामास पार्थिवः
तं मंत्रं क्रियमाणं तु सूनुभ्यां सह मंत्रिभिः
ततः कतिपयाहे तु तां कन्यां जलजेक्षणाम्