सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम्
उवाच परमं कुद्धस्तां कन्यां काममोहिताम्
स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि
अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति
इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता 5.2.62.
अथ प्रसादयामास सा कन्या पितरं तदा
अज्ञानाच्च कृतं पापं तात त्वं क्षंतुमर्हसि
न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः
इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः
नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम्
अकार्यं कारितो येन बलादहमनिंदिते
महाकालवने पुण्ये लिंगं रूपप्रदायकम्
तत्त्वं गच्छ त्वरा युक्ता सह भर्त्रा नृपेण हि
इत्युक्ता सा तदा कन्या सह भर्त्रा गता प्रिये
ददर्श परया भक्त्या स च राजा नरोत्तमः दिव्यवस्त्रपरीधाना दिव्यालंकारभूषिता ।। 5.2.62.
स च राजा तथा जातः कंदर्पसदृशाकृतिः
अतो लोकेषु विख्यातो देवो रूपेश्वरः प्रिये
स च राजा स्वकं प्राप्तो राष्ट्रं सस्यादिसंयुतम्
राज्यं कृत्वा गतः स्वर्गं भार्यया सह पार्वति
विमानेन सुदीप्तेन वंद्यमानो दिवालये
ये पश्यंति विशालाक्षि देवं रूपेश्वरं शिवम्
सदा रूपकरं लिंगं भुक्तिमुक्तिफलप्रदम्
येऽर्चयंति नरा नित्यं देवं रूपेश्वरं परम्
स एव सुकृती लोके कुलं तेनाप्यलंकृतम्
यः पूजयति देवेशं प्रसंगादपि पार्वति 5.2.62.
एष ते कथितो देवि प्रभावः पापनाशनः ।। रूपेश्वरस्य देवस्य धनुःसाहस्रकं ७ब्
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पंचम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्ये रूपेश्वरमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः
त्रिषष्टिसंख्यकं दिव्यं दर्शनात्पापनाशनम्
विदूरथोनाम नृपः ख्यातकीर्त्तिरभूद्भुवि
एकदा तु वनं यातो मृगयां स विदूरथः