तत्र वन्यसहस्राणि हत्वा सबलवाहनः
एक एवोत्तमबलः क्षुत्पिपासासमन्वितः। स वनस्यांतमासाद्य महदारण्यमासदत्
तच्चाप्यतीत्य नृपतिर्ददर्शाश्रममुत्तमम्
पुष्पितैः पादपैः कीर्णमतीव सुखशाद्वलम्
श्रुत्वाथ तं तथा शब्दं कन्या श्रीरिव रूपिणी 5.2.62.
सा तं दृष्ट्वैव राजानं पद्मगर्भसमुद्भवम्
उवाच स्मयमानाथ किं कार्यं क्रियतामिति
दृष्ट्वा चैवानवद्यांगीं यथावत्प्रतिपूजितः
क्व गतो भगवान्भद्रे तन्ममाचक्ष्व शोभने हसंती प्रत्युवाचेदं वाक्यं समधुराक्षरम्
कन्याहं पृथिवीपाल कौमारब्रह्मचारिणः
सुता कण्वस्य मामेवं विद्धि त्वं मनुजाधिप
तस्यास्तद्वचनं श्रुत्वा नृपेणोक्तं वरानने
भार्या मे भव सुश्रोणि ब्रूहि किं करवाणि ते
आहरामि तवाद्याहं भार्या मे भव शोभने विवाहानां च रंभोरु गांधर्वः श्रेष्ठ उच्यते
नृपस्य वचनं श्रुत्वा कन्या वचनमब्रवीत् 5.2.62.
तदर्थं मां स्थितं विद्धि त्वया मेऽपहृतं मनः
आत्मनो बंधुरात्मैव गतिरात्मैव चात्मनः
सत्यं मे प्रतिजानीहि दत्तमात्मानमद्य मे
इति तस्या वचः श्रुत्वा परिणीता नृपेण हि
कामिता सा नृपेणेव ततो गंतुं समुद्यतः
सा कन्या पितरं दृष्ट्वा ह्रिया नोपजगाम तम्
उवाच परमं कुद्धस्तां कन्यां काममोहिताम्
स्वयं स्वयंवरो मोहात्तस्मात्कृष्णा भविष्यसि
अयं ते नृपतिर्भर्त्ता दुष्टरूपो भविष्यति
इत्युक्ता तत्क्षणाज्जाता सा कन्या रूपवर्जिता 5.2.62.
अथ प्रसादयामास सा कन्या पितरं तदा
अज्ञानाच्च कृतं पापं तात त्वं क्षंतुमर्हसि
न चाहं प्रार्थिता तेन मयासौ प्रार्थितो नृपः
इति तस्या वचः श्रुत्वा स विप्रोऽतिकृपान्वितः
नैव वागनृतं पुत्रि यावदद्य स्मराम्यहम्