सौभाग्यं भविता तत्र कांतेन सह दर्शनम्
इत्युक्ता सा तदा तेन तापसेन वरानने
ददर्श प्रणयोपेता लिंगं सौभाग्यदायकम्
पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो
मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः 5.2.61.
न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः
महाकालवनं राजन्गता सौभाग्यकाम्यया
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि
इति तस्य वचः श्रुत्वा समायातो नरेश्वरः
सौभाग्यालंकृतां सुभ्रू पूजयंतीं महेश्वरम्
विरहेण त्वदीयेन संतप्तोऽहं वरानने
यत्त्वां पश्यामि सुभगे कृतार्थोहं कृतस्त्वया उवाच च प्रसीदेति भूयो भूयो मुदान्विता
ततः स राजा रभसात्परिष्वज्याह भामिनीम् 5.2.61.
ततः समागमो जातो जातः पुत्रोऽतिधार्मिकः
सौभाग्यमतुलं लब्धं तया देव्या हिमात्मजे
ये पश्यंति विशालाक्षि सौभाग्येश्वरमीश्वरम्
भविष्यति न दारिद्र्यं वियोगो न च बन्धुभिः
नोपसर्गभयं तेषां ये पश्यंति वरानने
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः संपूज्यः सर्वलोकेषु सौभाग्येकनिधिर्भवेत्
|| जायते भूपतिर्लोके सार्वभौमो वरानने जायते दुर्भगा नैव सौभाग्येश्वरदर्शनात्
न वैधव्यं न च व्याधिर्नाकालमरणं श्रिये
यथा लक्ष्मीर्हरेर्नित्यं सावित्री ब्रह्मणः स्मृता तथा सा जायते नारी सौभाग्येश्वरदर्शनात्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.61.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीति लिंगमाहात्म्ये सौभाग्येश्वरमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः
यस्य दर्शनमात्रेण रूपवाञ्जायते नरः
पाद्मकल्पे महादेवि पद्मोनाम महीपतिः पृथिव्याश्चतुरंताया जातो धर्मरतो बली
स कदाचिन्महाबाहुः प्रभूतबलवाहनः
बिल्वार्कखदिराकीर्णं कपित्थधवसंकुलम्