धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः
अभीष्टा कस्यचित्कांता कांतः कस्याश्चिदीप्सितः
ममायं वल्लभो राजा न चाहं नृपवल्लभा
यद्यद्य स महीपालो न मया संगमेष्यति
रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् 5.2.61.
इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः
मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम्
उदयादित्यसंकाशं विभावसुसमद्युतिम्
विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च
भगवन्काशिराजस्य सुताहमतिवल्लभा
अश्ववाहनसंज्ञेन नृपेणोढा महामुने
सा किमर्थं न चाभीष्टा जाताऽहं तस्य भूपतेः
दुर्भगाहं कथं जाता कर्मणा केन तापस सौभाग्यं च कथं मे स्यादिति सत्यं च कथ्यताम्
तस्यास्तद्वचनं श्रुत्वा स मुनिः संशितव्रतः
पाणिग्रहणकाले त्वं ग्रहैः पापैर्विलोकिता 5.2.61.
तेन ते वल्लभो राजा न त्वं भूपस्य वल्लभा पप्रच्छ विनयोपेता भक्तिनम्रात्मकन्धरा
भगवन्केन दानेन स्नानेन नियमेन च
इति तस्या वचः श्रुत्वा स मुनिः संशितव्रतः
महाकालवने पुत्रि लिगं सौभाग्यदायकम् तस्य दर्शनमात्रेण सौभाग्यं समवाप्स्यसि
इंद्राण्याराधितं लिंगं पुरा सौभाग्यकारणात् तस्माद्गच्छ ममादेशान्महाकालवनं शुभम्
सौभाग्यं भविता तत्र कांतेन सह दर्शनम्
इत्युक्ता सा तदा तेन तापसेन वरानने
ददर्श प्रणयोपेता लिंगं सौभाग्यदायकम्
पप्रच्छ जमदग्निं तु क्व गता मे प्रिया विभो
मया त्यक्ता नृशंसेन अहं तस्यास्तु वल्लभः 5.2.61.
न भक्षिता सा भूपाल सिंहव्याघ्रनिशाचरैः
महाकालवनं राजन्गता सौभाग्यकाम्यया
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता
धर्महानिश्चानुदिनमभार्यस्य भवेन्नृप
पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्त्तरि