पंचब्रह्ममयैर्मंत्रैः पंचाक्षरवपुर्धरैः
अष्टभिश्च सदा लिंगैरष्टदिक्पालपूजितः
यत्र सिद्धास्तथा लोकान्स्वान्स्वान्मुक्त्वा सुरेश्वराः 1.3.1.2.
एवं वसुंधरापुण्यपरिपाकसमुच्चयः
कैलासान्मेरुशिखरादागतैर्देवसंचयैः
इति कमलजवक्त्रपद्मजां तं मुदितमनाः सनको निशम्य भक्त्या
सनक उवाच भगवन्नरुणाद्रीश माहात्म्यमिदमद्भुतम्
आश्चर्यमेतन्माहात्म्यं सर्वपापविनाशनम्
अनादिरंतरहितः शिवः शोणचलाकृतिः
सकृत्संकीर्तिते नाम्नि शोणाद्रिरिति मुक्तिदे
शिवशब्दामृतास्वादः शिवार्चनकथाक्रमः
उवाच करुणामूर्तिररुणाद्रीशमानमन् ब्रह्मोवाच श्रूयतां वत्स पार्वत्याश्चरितं यत्पुरातनम्
अरुणाद्रीशमाश्रित्य यथा सा निर्वृताभवत्
रत्नसिंहासनं दिव्यं रत्नतोरणसंयुतम्
परार्ध्य दृषदास्तीर्णं बद्धमुक्तावितानकम्
प्रलंबमालिकाजालनिनदद्भृंगसंकुलम् 1.3.1.3.
पार्वतीसिंहसंचारपरित्रस्तमहागजम्
आसेवितपुरोरंगं दिक्पालकनिषेवितम्
ब्रह्मर्षिभिस्तथा देवैः सिद्धै राजर्षिभिवृतम्
रुद्राक्षधारसुभगैरापूर्णं शिवतत्परैः
घंटाटंकारसुभगैर्वेदध्वनिविमिश्रितैः
अलंचकार भगवन्भक्तानुग्रहकाम्यया
अंबिकासहितः श्रीमान्विजहार दयानिधिः
गणानां विकटैर्नृत्यै रमयामास पार्वतीम्
वरान्प्रदाय विविधान्भक्तलोकाय वाञ्छितान्
विजहारोमया सार्द्धं रत्नप्रासादपंक्तिषु 1.3.1.3.
केलिपर्वतशृंगेषु हेमरंभावनांतरे
वातेन मंदगतिना विहारविहतश्रमः
रतिरूपां शिवां देवीं सर्वसौभाग्यसुन्दरीम्
रमणं जानती मुग्धा पश्चादभ्येत्य सादरम्