ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः
ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः
येऽर्चयंति महा देवि मतंगेश्वरमीश्वरम 5.2.60.
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये मतंगेश्वरमाहात्म्य वर्णनंनाम षष्टितमोऽध्यायः
यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत्
प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः
अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वप राजितः
काशिराजसुता सुभ्रू रूपेणातीव शोभना
चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता
पूर्वकर्मवशाद्देवि दुर्भूगा समजायत
श्रोत्रोद्वेगकरं वाक्यं तस्य राज्ञः करोति सा
मृर्छां प्राप्नोत्यसह्यां स तस्याः स्पर्शेन भूपतिः दह्यमानोऽतितीव्रेण वह्निना वाक्यमब्रवीत्
द्वास्थैतां दुर्भगां भार्यामादाय विपिने वने
ततो नृपस्य वचनमविचार्यमवेक्ष्य सः 5.2.61.
सा च त्यक्ता वने शून्ये रुदती च मुहुर्मुहुः
अथ सा चारुसर्वांगी तत्रासक्तात्ममानसा
निश्वसन्त्यनवद्यांगी हाहेति रुदती मुहुः
न विहारे न चाहारे रमणीये न तद्वने त्यक्ता तेन वरारोहे निनिन्द निजयौवनम्
दुर्भगाहं क्व जातात्र दुष्टदैववशीकृता
धन्योऽयमतिपुण्योऽयं योऽयं यौवनगोचरः
अभीष्टा कस्यचित्कांता कांतः कस्याश्चिदीप्सितः
ममायं वल्लभो राजा न चाहं नृपवल्लभा
यद्यद्य स महीपालो न मया संगमेष्यति
रमणीयमभूद्यत्तु पुंस्कोकिलनिनादितम् 5.2.61.
इत्थं सा मदनाविष्टा विलपन्ती पुनःपुनः
मेखलाजिनकौपीनदण्डकाष्ठोपजीवनम्
उदयादित्यसंकाशं विभावसुसमद्युतिम्
विनयेनोपसंयम्य प्रणिपत्याभिवाद्य च
भगवन्काशिराजस्य सुताहमतिवल्लभा