अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो 5.2.60.
वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः
अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम्
एतामवस्थां संप्राप्तो दैवयोगात्पुरंदर
यदहं यत्नवानेवं न लभे विप्रतां विभो
यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम
यथा ममाक्षया कीत्तिर्भवेद्वापि पुरंदर ।। कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये
इत्युक्तो हि मतंगेन वासवो बलवृत्रहा
दिव्यमूर्त्तिधरं दिव्यं श्रीसिद्धेश्वरपूर्वतः
तस्य दर्शनमात्रेण विप्रत्वं समवाप्स्यसि
महाकालवनं रम्यं सिद्धक्षेत्रमथापरम् 5.2.60.
दृष्ट्वा संपूजयामास पुष्पैर्नानाविधैस्तथा
अहो महान्सभाग्योसि यस्त्वया तोषितोऽस्म्यहम्
वरदोऽस्मि वरार्हाणां शापदोऽस्मि दुरात्मनाम
ततोऽसौ विप्रतां यातो मतंगो लिंगदर्शनात
ब्राह्मण्यं दुर्लभं लब्धं लिंगस्यास्य प्रभावतः
मतंगेश्वरको लोके ब्रह्मलोकप्रदायकः
निर्मर्यादा निराचारा निःशंकाश्चातिलोलुपाः दर्शनात्तस्य लिंगस्य तेऽपि यांति त्रिविष्टपम्
ये विशुद्धा महाभागा ध्यानिनो मुक्तिभागिनः
ब्रह्मध्यानपरा ये च यज्ञदानक्रियारताः
येऽर्चयंति महा देवि मतंगेश्वरमीश्वरम 5.2.60.
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये मतंगेश्वरमाहात्म्य वर्णनंनाम षष्टितमोऽध्यायः
यस्य दर्शनमात्रेण सौभाग्य मतुलं लभेत्
प्रधमं प्राकृते कल्पे राजाभूदश्ववाहनः
अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वप राजितः
काशिराजसुता सुभ्रू रूपेणातीव शोभना
चतुःषष्टिकलायुक्ता सदा भर्तृहिते रता