कथं मां वेत्सि चंडालं यायावरकुलोद्भवम्
ततस्त्वमसि चांडालो ब्राह्मण्यं तेन ते गतम्
एवमुक्तो मतंगस्तु पितरं वाक्यमब्रवीत् 5.2.60.
गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः
स गत्वा च ततोऽरण्यमतप्यत महत्तपः
तं तथा तपसा युक्तमुवाच हरिवाहनः वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि
देहि मे शाश्वतं शक्र वर एष वृतो मया
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः
नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम्
एवमुक्तो मतंगस्तु संशितात्मा यत व्रतः
तमुवाच ततः शक्रः पुनरेव महायशाः
न हि शक्यं प्राप्तुमेवमचिरान्नाशमेष्यसि
एवमुक्तो मतंगस्तु संशितात्मा दृढव्रतः 5.2.60.
तदेव च पुनर्वाक्यमुवाच बलवृत्रहा
अन्यं वरं वृणीष्व त्वं मा कृथास्तत्स्वयं श्रमम्
अतिष्ठत गयां गत्वा सोंगुष्ठेन शतं समाः
त्वगस्थिभूतो धर्मात्मा तताप परमं तपः
वराणामीश्वरो दाता सर्वभूतहिते रतः
ब्राह्मण्यं दुर्ल्लभं तात ह्यसतां पापशीलिनाम्
ब्राह्मणे सर्वभूतानां योगक्षेमः समाहितः
अन्यं वरं वृणीष्व त्वं दुर्लभोऽयं हि ते वरः
तं तु शोचामि यो लब्ध्वा ब्राह्मण्यं नानुपालयेत्
ब्राह्मण्यं यदि दुष्प्राप्यं त्रिभिर्वर्णैः शतक्रतो 5.2.60.
वीतहव्यश्च राजर्षिस्तपसा विप्रतां गतः
अहिंसादमसत्यस्थः कथं नार्हामि विप्रताम्
एतामवस्थां संप्राप्तो दैवयोगात्पुरंदर
यदहं यत्नवानेवं न लभे विप्रतां विभो
यदि तेऽहमनुग्राह्यः किंचिद्वा सुकृतं मम
यथा ममाक्षया कीत्तिर्भवेद्वापि पुरंदर ।। कर्तुमर्हसि तद्देव शिरसा त्वां प्रसादये
इत्युक्तो हि मतंगेन वासवो बलवृत्रहा