आजन्मनो जगन्नाथ कदा द्रक्ष्ये जनार्द्दनम् दीयमानं त्वयाभीष्टं ख्यातं सिद्धेश्वरं क्षितौ
नृपस्य वचनं श्रुत्वा लिंगेनोक्तं वरानने
परं रूपं नृपश्रेष्ठ कृष्णोऽहं लिंगतां गतः
न चैते मां विजानंति परमार्थेन पार्थिव
एतदेव हि ब्रह्माद्या ध्यायन्ति त्रिदशास्त्वमी
अनेकजन्मसंशुद्धा योगिनो मदनुग्रहात् 5.2.59.
एवं हि बुवतस्तस्य सिद्धिः प्राप्ता नृपेण हि
अतो देवि सुविख्यातं लिंगं सिद्धेश्वरं परम्
अंजनं पादलेपं च पादुकासिद्धिरेव च
दिव्यौषधैश्च या सिद्धिर्मंत्रस्पर्शोद्भवा च या
धर्मार्थकाम सिद्धिश्च मोक्षसिद्धिरनुत्तमा
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीति लिङ्गमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनामैकोनषष्टितमोऽध्यायः
विद्धि पापहरं देवि समीहितकरं सदा
सुगतिर्नाम विप्रेन्द्रो बभूव द्वापरे युगे
मतंगस्तस्य पुत्रोऽभूद्बाल्याद्दारुणतां गतः दण्डकाष्ठेन सहसा ताडयामास चापलात्
तं तु तीव्राहतं दृष्ट्वा गर्दभी पुत्रगृद्धिनी
ब्राह्मणे दारुणं नास्ति मैत्रो ब्राह्मण उच्यते
स्वकीयां भजते चाथ प्रकृतिं मानवः सदा
दंडकाष्ठं परित्यज्य रासभीं प्रत्यभाषत
कथं मां वेत्सि चंडालं यायावरकुलोद्भवम्
ततस्त्वमसि चांडालो ब्राह्मण्यं तेन ते गतम्
एवमुक्तो मतंगस्तु पितरं वाक्यमब्रवीत् 5.2.60.
गर्दभ्या कथितं सम्यक्तस्मात्तप्स्ये महत्तपः
स गत्वा च ततोऽरण्यमतप्यत महत्तपः
तं तथा तपसा युक्तमुवाच हरिवाहनः वरं ददामि तेऽहं तं वृणीष्व त्वं यदिच्छसि
देहि मे शाश्वतं शक्र वर एष वृतो मया
एतच्छ्रुत्वा तु वचनं तमुवाच पुरंदरः
नाशमेष्यसि दुर्बुद्धे तदुपारम मा चिरम्
एवमुक्तो मतंगस्तु संशितात्मा यत व्रतः