जैगीषव्योऽथ रुद्रस्तु तस्यैवांके व्यवस्थितः
कौतुकात्प्रत्युवाचेदं भीतः कंपितकन्धरः सर्वरूपी हरिः श्रीमान्सर्वगः सर्वदः स्मृतः
ततो वाक्यावसाने तु तस्य राज्ञश्च संसदि
अश्वा गावो हयाः सिंहा व्याघ्रा गोमहिषास्तथा
दृश्यंते राजभवने कोटिशः पर्वतात्मजे
यावच्चिंतयते किं स्यात्तावज्ज्ञातं नृपेण हि 5.2.59.
कृतांजलिपुटो भूत्वा स राजाऽश्वशिरास्तदा
सामर्थ्यमीदृशं लब्धं कस्माद्वै तपसो बलात्
सफला मे मनोवृत्तिर्युवयोर्दर्शनेन वै
महाकालवने राजन्विद्यते लिंगमुत्तमम्
सौभाग्येश्वरपूर्वे तु सौभाग्यारोग्यदायकम्
जैगीषव्येन सिद्धेन मया वैं नृपसत्तम
तत्र द्रक्ष्यसि सर्वेशं शंखचक्रगदाधरम
संसिद्धा बहवस्तत्र सनकाद्या नरेश्वर
जगाम सहसा तत्र स राजाश्वशिरास्तदा
अन्ये च बहवः सिद्धाः सिद्धनाथास्तथा परे 5.2.59.
लिंगमध्ये स्थित विष्णुं ज्ञात्वा स नृपसत्तमः
ततस्तुष्टोऽब्रवीद्देवो वरं वरय सुव्रत
लिंगस्य वचनं श्रुत्वा नृपेणोक्तं च तच्छृणु
यत्ते रूपं परं नाथ तद्दर्शय ममाच्युत
आजन्मनो जगन्नाथ कदा द्रक्ष्ये जनार्द्दनम् दीयमानं त्वयाभीष्टं ख्यातं सिद्धेश्वरं क्षितौ
नृपस्य वचनं श्रुत्वा लिंगेनोक्तं वरानने
परं रूपं नृपश्रेष्ठ कृष्णोऽहं लिंगतां गतः
न चैते मां विजानंति परमार्थेन पार्थिव
एतदेव हि ब्रह्माद्या ध्यायन्ति त्रिदशास्त्वमी
अनेकजन्मसंशुद्धा योगिनो मदनुग्रहात् 5.2.59.
एवं हि बुवतस्तस्य सिद्धिः प्राप्ता नृपेण हि
अतो देवि सुविख्यातं लिंगं सिद्धेश्वरं परम्
अंजनं पादलेपं च पादुकासिद्धिरेव च
दिव्यौषधैश्च या सिद्धिर्मंत्रस्पर्शोद्भवा च या