इति पृष्टस्तदा तेन प्रार्थितेन यशस्विना
क एष प्रोच्यते राजंस्त्वया नारायणोऽधुना
युवां नारायणौ कस्मादिति वाक्यमुवाच सः
शंखचक्रगदापाणिः पीतवासा जनार्द्दनः
तस्य राज्ञो वचः श्रुत्वा संसिद्धौ योगकोविदौ
कपिलो मंत्रमाहात्म्यात्स्वयं विष्णुर्बभूव ह
जैगीषव्यश्च गरुडस्तत्क्षणात्समजायत 5.2.59.
दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् उवाच क्षाम्यतां सिद्धौ नायं विष्णुरथेदृशः
इति राज्ञो वचः श्रुत्वा तदा तौ सिद्धसत्तमौ
कपिलः पद्मनाभस्तु पद्ममध्ये प्रजापतिः
जैगीषव्योऽथ रुद्रस्तु तस्यैवांके व्यवस्थितः
कौतुकात्प्रत्युवाचेदं भीतः कंपितकन्धरः सर्वरूपी हरिः श्रीमान्सर्वगः सर्वदः स्मृतः
ततो वाक्यावसाने तु तस्य राज्ञश्च संसदि
अश्वा गावो हयाः सिंहा व्याघ्रा गोमहिषास्तथा
दृश्यंते राजभवने कोटिशः पर्वतात्मजे
यावच्चिंतयते किं स्यात्तावज्ज्ञातं नृपेण हि 5.2.59.
कृतांजलिपुटो भूत्वा स राजाऽश्वशिरास्तदा
सामर्थ्यमीदृशं लब्धं कस्माद्वै तपसो बलात्
सफला मे मनोवृत्तिर्युवयोर्दर्शनेन वै
महाकालवने राजन्विद्यते लिंगमुत्तमम्
सौभाग्येश्वरपूर्वे तु सौभाग्यारोग्यदायकम्
जैगीषव्येन सिद्धेन मया वैं नृपसत्तम
तत्र द्रक्ष्यसि सर्वेशं शंखचक्रगदाधरम
संसिद्धा बहवस्तत्र सनकाद्या नरेश्वर
जगाम सहसा तत्र स राजाश्वशिरास्तदा
अन्ये च बहवः सिद्धाः सिद्धनाथास्तथा परे 5.2.59.
लिंगमध्ये स्थित विष्णुं ज्ञात्वा स नृपसत्तमः
ततस्तुष्टोऽब्रवीद्देवो वरं वरय सुव्रत
लिंगस्य वचनं श्रुत्वा नृपेणोक्तं च तच्छृणु
यत्ते रूपं परं नाथ तद्दर्शय ममाच्युत