तपसा किं सुतप्तेन कायक्लेशकरेण तु
प्रियव्रतो महादेवि महाकालवनं गतः
ददर्श तत्र तल्लिंगं नवनद्यास्तु दक्षिणे
मया संमानितो देवि गणानामधिपः कृतः ते धन्या मानुषे लोके क्लिश्यन्त्यन्ये निरर्थकाः
या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः
माघमासे समेष्यंति प्रयागेश्वरदर्शनम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.58.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्य खंडे चतुरशीतिलिङ्गमाहात्म्ये प्रयागेश्वरमाहात्म्यवर्णनंनामाष्टपंचाशत्तमोऽध्यायः
यस्य दर्शनमात्रेण सिद्धिः पुंसां प्रजायते
आसीदश्वशिरानाम राजा परमधार्मिकः
स्नातश्चावभृथे हृष्टो ब्राह्मणैः परिवारितः
नानौषधिप्रभावज्ञो मंत्रतंत्र विशारदः
तयोस्त्वरितमुत्थाय स राजाभ्यागतक्रियाम्
तावर्चितावासनस्थौ क्षमाशीलौ शुचिव्रतौ अनेकसृष्टिसंहारस्थितिकार्यपरायणौ
उदयादित्यसंकाशौ विभावसुसमद्युती
विनयेनोपसंगम्य प्रणिपत्याभिवाद्य च
ध्यातोथ पूजितो नॄणां मुक्तिदो भवबंधनात् ।। 5.2.59.
संस्मृते तु हृषीकेशे नराणां कोटिजन्मजम्
समाराध्य जगन्नाथं शक्राद्यास्त्रिदिवौकसः
जन्ममृत्युजरा रोगैर्दुःखानि विविधानि च
इति पृष्टस्तदा तेन प्रार्थितेन यशस्विना
क एष प्रोच्यते राजंस्त्वया नारायणोऽधुना
युवां नारायणौ कस्मादिति वाक्यमुवाच सः
शंखचक्रगदापाणिः पीतवासा जनार्द्दनः
तस्य राज्ञो वचः श्रुत्वा संसिद्धौ योगकोविदौ
कपिलो मंत्रमाहात्म्यात्स्वयं विष्णुर्बभूव ह
जैगीषव्यश्च गरुडस्तत्क्षणात्समजायत 5.2.59.
दृष्ट्वा नारायणं देवं गरुडस्थं सनातनम् उवाच क्षाम्यतां सिद्धौ नायं विष्णुरथेदृशः
इति राज्ञो वचः श्रुत्वा तदा तौ सिद्धसत्तमौ
कपिलः पद्मनाभस्तु पद्ममध्ये प्रजापतिः