एवमुक्ते मया पृष्टा विस्मयेन महीपते
त्वदीय हृदये देवि क एते पुरुषास्त्रयः
एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः
सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः
इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते
किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम्
कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ 5.2.58.
नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा
एवं मनसि संध्याय गतोऽहं नृपसत्तम
तपस्तीव्रं मया तत्र तप्तं परमदुष्करम्
उक्तोऽहं प्रणयात्तेन न मां तापय नारद
भवतः पार्श्वमायातः प्रणयेन तपोधन
मया सार्धं त्वया ब्रह्मन्गतिः कार्याऽविकल्पतः भविष्यति न संदेहो मम कीर्तिश्च सुस्थिरा
एवं हि ब्रुवतस्तस्य प्रयागस्य नृपोत्तम
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः
एहि नारद गच्छामः प्रयागो यत्र यास्यति
ज्ञानं मे देहि देवेश कथं यास्यामि तद्वनम् 5.2.58.
इत्युक्तः श्रीधरेणाहं महाकालवनं नृप
तत्र लिंगमनादि तु ज्योतीरूपं सनातनम्
प्रयागः पूजयामास पश्यतो मम भूपते
प्रयाग प्रयतो भूत्वा प्रसन्नोऽहं सदा तव
इत्युक्तस्तेन लिंगेन मदर्थं प्रार्थितस्तदा
नष्टा वेदाश्च शास्त्राणि सावित्र्या दर्शनात्प्रभो
ततो लिंगात्समुत्तस्थौ ब्रह्मा वेदैर्वृतस्तदा
इत्युक्तोऽहं तदा देव्या सावित्र्या नृपसत्तम
प्रतिभास्यंति ते वेदा धर्मशास्त्राणि नारद
ज्ञानं षडंगसहितं शास्त्राणि विविधानि च 5.2.58.
प्रयागेनार्चितो देवो मम ज्ञानस्य कारणात्
तदाप्रभृति तल्लिंगं तीर्थकोटिशतैर्वृतम्
किमनेनाश्वमेधेन इष्टेन नृपसत्तम