स्वयं विशालां बदरीं गत्वा तेपे महत्तपः
पूजितो विष्टरार्घेण राज्ञा प्रियव्रतेन च
इत्युक्तः कथयामास नारदो मुनिसत्तमः
सा च पृष्टा विशालाक्षी कस्माद्वससि निर्जने
कर्त्तव्यं चारुसर्वांगि तन्ममाचक्ष्व शोभने
स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम्
ततोऽहं विस्मयाविष्टश्चिंतामोहसमन्वितः 5.2.58.
तावद्दिव्यः पुमांस्तस्याः शरीरे समदृश्यत तस्यापि हृदये चान्यस्तृतीयस्तु व्यवस्थितः
ततः पृष्टा मया देवी सा कुमारी कथंचन
मां न जानासि येन त्वमतो वेदा हृतास्तव
एवमुक्ते मया पृष्टा विस्मयेन महीपते
त्वदीय हृदये देवि क एते पुरुषास्त्रयः
एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः
सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः
इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते
किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम्
कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ 5.2.58.
नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा
एवं मनसि संध्याय गतोऽहं नृपसत्तम
तपस्तीव्रं मया तत्र तप्तं परमदुष्करम्
उक्तोऽहं प्रणयात्तेन न मां तापय नारद
भवतः पार्श्वमायातः प्रणयेन तपोधन
मया सार्धं त्वया ब्रह्मन्गतिः कार्याऽविकल्पतः भविष्यति न संदेहो मम कीर्तिश्च सुस्थिरा
एवं हि ब्रुवतस्तस्य प्रयागस्य नृपोत्तम
शङ्खचक्रगदापाणिर्गरुडस्थो वियद्गतः
एहि नारद गच्छामः प्रयागो यत्र यास्यति
ज्ञानं मे देहि देवेश कथं यास्यामि तद्वनम् 5.2.58.
इत्युक्तः श्रीधरेणाहं महाकालवनं नृप
तत्र लिंगमनादि तु ज्योतीरूपं सनातनम्
प्रयागः पूजयामास पश्यतो मम भूपते