यास्यंति सुचिरं कालं मम लोकं सनातनम्
व्याधितो यदि वा दीनो दुःखितो वा भवेन्नरः दीप्तकांचनवर्णाभैर्विमानैः सार्वकामिकैः
गंधर्वाप्सरसां मध्ये स्वर्गे मोदति मानवः
ततः स्वर्गात्परिभ्रष्टः सर्वैश्वर्यसमन्वितः राजा वा राजतुल्यो वा जंबूद्वीपपतिर्भवेत्
यः पूजयति देवेशं श्रद्धया परया युतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये घण्टेश्वर माहात्म्यवर्णनंनाम सप्तपंचाशत्तमोऽध्यायः
अष्टाधिकं विजानीहि पंचाशत्तममीश्वरम्
आसीत्प्रथमकल्पे तु मनुः स्वायंभुवः पुरा
स चेष्ट्वा बहुभिर्यज्ञैः समाप्तवरदक्षिणैः
स्वयं विशालां बदरीं गत्वा तेपे महत्तपः
पूजितो विष्टरार्घेण राज्ञा प्रियव्रतेन च
इत्युक्तः कथयामास नारदो मुनिसत्तमः
सा च पृष्टा विशालाक्षी कस्माद्वससि निर्जने
कर्त्तव्यं चारुसर्वांगि तन्ममाचक्ष्व शोभने
स्मृत्वा तूष्णीं स्थिता यावत्तावन्मे ज्ञानमुत्तमम्
ततोऽहं विस्मयाविष्टश्चिंतामोहसमन्वितः 5.2.58.
तावद्दिव्यः पुमांस्तस्याः शरीरे समदृश्यत तस्यापि हृदये चान्यस्तृतीयस्तु व्यवस्थितः
ततः पृष्टा मया देवी सा कुमारी कथंचन
मां न जानासि येन त्वमतो वेदा हृतास्तव
एवमुक्ते मया पृष्टा विस्मयेन महीपते
त्वदीय हृदये देवि क एते पुरुषास्त्रयः
एष ऋग्वेदनामा तु यजुर्वेदो द्वितीयकः
सामवेदस्तृतीयस्तु त्रयो वेदा मयि स्थिताः
इत्युक्त्वा सा तदा कन्या पश्यतो मम भूपते
किं करोमि क्व गच्छामि शरणं यामि कं प्रभुम्
कामिकस्तीर्थराजस्तु प्रयागः श्रूयते श्रुतौ 5.2.58.
नष्टवेदेन रैभ्येण प्राप्ता सिद्धिरनुत्तमा
एवं मनसि संध्याय गतोऽहं नृपसत्तम
तपस्तीव्रं मया तत्र तप्तं परमदुष्करम्