घंटोनाम गणश्रेष्ठो बभूव मम वल्लभः प्रस्थितो ब्रह्मसदनं द्रष्टुं ब्रह्माणमव्ययम्
अथायान्तं समालोक्य गन्धर्वं गीतकोविदम्
मया तत्रैव गन्तव्यं सदने परमेष्ठिनः।. गीतैराराधयिष्यामि ब्रह्माणं जगतां पतिम्
चित्रसेनोऽथ तं देवि प्रत्युक्तो घंटमब्रवीत्
एतच्छ्रुत्वा गणो घंटस्तस्थौ विस्मितमानसः
हित्वा स्वामिनमीशानं द्रष्टुं ब्रह्माणमागतः
एवं चिंतयतस्तस्य साग्रः संवत्सरो गतः
निर्गच्छतमथालोक्य वीणाहस्तं समुत्सुकम्
प्रोक्तो घंटेन सहसा मां निवेदय नारद 5.2.57.
दर्शनार्थं समायातो ब्रह्मणः परमेष्ठिनः नारदः प्रत्युवाचेदं समाश्वास्य सकैतवम्
अहं बृहस्पतेः पार्श्वे प्रेषितोऽस्मि गणाधिप आयास्यामि क्षणेनैव तावत्कालं प्रतीक्ष्यताम्
इत्युक्त्वा नारदो देवि मम पार्श्वमुपागतः
ईदृशो दुर्ल्लभो भृत्यो घंटेन सदृशः प्रभो स्थितः संवत्सरं साग्रं प्रवेशं न च लब्धवान्।।१४ तच्छ्रुत्वा वचनं तस्य नारदस्य मुनेस्तदा
मां त्यक्त्वा हि गतोन्यत्र सेवार्थं परवेश्मनि
पतितो भूतले घंटो देवदारुवनांतिके
प्रोक्तं शोकोत्तरेणैव वचनं गद्गदाक्षरम्
स याति नरकं घोरमपकीर्तिं च विंदति यस्मात्स्वामी न मे ब्रह्मा न च देवो महेश्वरः
एवं विलपतस्तस्य नारदो मुनिसत्तमः 5.2.57.
देवदारुवने देवि दर्शनार्थं तपस्विनाम्
अवस्थामीदृशीं कृत्वा किमन्यन्मे करिष्यति
गणाध्यक्ष न ते कार्यो मन्युः पुण्यविनाशनः
प्रायश्चित्तविशुद्धात्मा प्रभुं प्राप्स्यसि शंकरम्
रेवंतेश्वर पूर्वे तु विद्यते लिंगमुत्तमम्
इत्युक्तो नारदेनैव जैगीषव्यः समागतः
नारदेन गणाध्यक्ष कीर्त्तिस्ते भविताऽक्षया
अत्रिणा भृगुणा देवि लोमशेन सुरर्षिणा
यत्र घंटानिनादेन युध्यतो मम संयुगे दृष्टं तत्र गणेनैव लिंगं तेजोमयं शुभम्
दर्शनात्तस्य लिंगस्य भूयो घंटो गणोऽभवत् 5.2.57.
घण्टोभिनंदितोऽत्यर्थं विमानैः सार्वकामिकैः
ये पश्यन्ति विशालाक्षि देवं घण्डेश्वरं शिवम्