दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने
भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः
ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः
आदित्यतनयेनैव रेवंतेन महेश्वर तेजसा महता चैव विक्रमेण बलेन च
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः
मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः 5.2.56.
स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः
परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि
ममाभीष्टं परं स्थानं विद्यते पृथिवीतले तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति
पूर्वे कंटेश्वरस्यापि स्थानं परमदुर्ल्भम्
सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः
अश्वशालासु सर्वासु पूजनीयो भविष्यसि
तेजो मदीयं तत्स्थानं लिंगाकारं सनातनम्
एवमुक्तो मया देवि रेवंतो रविजस्तदा
ददर्श तत्र तल्लिंगं ज्योतीरूपं सनातनम्
प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज 5.2.56.
स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा
रेवंतेश्वरसंज्ञोऽहं भविष्यामि न संशयः तेषामश्वा भविष्यंति विजयो यश ऊर्जितम्
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम्
लिंगस्य वचनं श्रुत्वा प्रोक्तं वै रविसूनुना
देहि मे ह्यचला भक्तिं देहि मे स्थानमुत्तमम्
भगवन्भूतभव्येश भवबंधभयापह । संस्कृतार्थोऽस्मि संजातस्तव देवस्य दर्शनात्
जन्मकोटिसुसंशुद्धा ये त्वां पश्यंति देहिनः ।। न तेषां पुनरावृत्तिर्घोरसंसारसागरे
इत्युक्त्वा रविसूनुर्वै रेवंतो रविवल्लभः
एष ते कथितो देवि प्रभावः पापनाशनः । रेवंतेश्वरदेवस्य घंटेश्वरमथो शृणु
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्ग माहात्म्ये रेवंतेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽयायः
यस्य दर्शनमात्रेण कामावाप्तिश्च जायते