यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते
असहंती पुरा संज्ञा रवेस्तेजोऽतिदुःसहम्
अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून्
गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा
नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ
अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः निर्जितं च जगच्चेदं सदेवासुरमानुषम्
ततो देवाः पराभूता ब्रह्माणं शरणं गताः
अस्माकं विभवं तेजो रविपुत्रेण नाशितम्
तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् 5.2.56.
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम्
दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने
भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः
ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः
आदित्यतनयेनैव रेवंतेन महेश्वर तेजसा महता चैव विक्रमेण बलेन च
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः
मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः 5.2.56.
स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः
परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि
ममाभीष्टं परं स्थानं विद्यते पृथिवीतले तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति
पूर्वे कंटेश्वरस्यापि स्थानं परमदुर्ल्भम्
सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः
अश्वशालासु सर्वासु पूजनीयो भविष्यसि
तेजो मदीयं तत्स्थानं लिंगाकारं सनातनम्
एवमुक्तो मया देवि रेवंतो रविजस्तदा
ददर्श तत्र तल्लिंगं ज्योतीरूपं सनातनम्
प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज 5.2.56.
स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा