य एष सिंहः संभूतस्तव क्रोधात्सुतो यतः
लिंगं सिंहेश्वरं भक्त्या यः पश्यति समाहितः
कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति 5.2.55.
मनसा चिंतितान्कामांस्तांश्च प्राप्नोति पुष्कलान्
यदा पश्यति सिंहेशं संसारार्णवतारकम्
तेभ्यो भयं न भवति श्रीसिंहेश्वरदर्शनात् तत्फलं जायते सम्यग्दृष्ट्वा सिंहेश्वरं शिवम्
मदीयं लोकमाप्नोति सुरासुरनमस्कृतम्
इत्युक्त्वासौ जगामाथ ब्रह्मा लोके स्वकं प्रिये प्रभावात्तपसस्तस्य गौरत्वं प्राप्तमद्भुतम्
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडे चतुरशीतिलिंगमाहात्म्ये सिंहेश्वरमाहात्म्यवर्णनंनाम पंचपंचाशत्तमोऽध्यायः
यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते
असहंती पुरा संज्ञा रवेस्तेजोऽतिदुःसहम्
अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून्
गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा
नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ
अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः निर्जितं च जगच्चेदं सदेवासुरमानुषम्
ततो देवाः पराभूता ब्रह्माणं शरणं गताः
अस्माकं विभवं तेजो रविपुत्रेण नाशितम्
तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् 5.2.56.
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम्
दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने
भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः
ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः
आदित्यतनयेनैव रेवंतेन महेश्वर तेजसा महता चैव विक्रमेण बलेन च
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः
मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः 5.2.56.
स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः