एवमुक्तोऽथ लिंगेन तापसो गणतां गतः
अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः
उत्पन्नं च तदा लिंगमशेषारिविनाशनम् अतः कंटेश्वरो देवो विख्यातो भुवनत्रये
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीईश्वर उवाच पंचाधिकं विजानीहि पंचाशत्तममीश्वरम्
सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः तपसा तव रौद्रेण दग्धं हि भुवनत्रयम्
दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते
त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम्
प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया
स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः भर्त्ता भूतपतिर्वश्यः कथं स्यादिति मे तपः
त्वदीयं वचनं श्रुत्वा वरार्हो वरदः प्रभुः
कियता चैव कालेन वांछासिद्धिर्भविष्यति
एतच्छ्रुत्वा त्वया वाक्यं ब्रह्मणः परमेष्ठिनः 5.2.55.
क्रोधात्सिंहः समुद्भूतो वदनात्ते भयावहः
प्रोद्धूतवल्गुलांगूलो दंष्ट्रोत्कटमुखोत्कटः
सोऽपि सिंहः क्षुधाविष्टस्त्वां भक्षयितुमुद्यतः
स दह्यमानः सहसा तेजसा तपसा तव
ततस्तवाभूत्करुणा सिंहं प्रति यतव्रते
उत्पादितं स्तनाभ्यां तु तस्य सिंहस्य कारणात
तेनोक्तं दह्यमानेन मातर्दग्धोस्मि तेजसा
तस्य तद्वचनं श्रुत्वा दुःखितस्य सुतस्य तु
अधमं विद्यते क्षेत्रं महाकालवनं सुत 5.2.55.
कंटेश्वरस्य देवस्य समीपे लिंगमुत्तमम्
अंधकासुरयुद्धे वै पीडिते वासवे पुरा
गतो महाकालवनं दृष्टो देवोऽथ तत्क्षणात्
ममत्वात्तस्य लिंगस्य त्वं गता तत्र पार्वति
दृष्टो दिव्यशरीरस्तु लिंगस्यास्य प्रभावतः
कृतं नाम त्वया देवि लिंगस्यास्य वरानने
अतः सिंहेश्वरो देवो भुवि ख्यातो भविष्यति उवाच त्वां वरारोहे देवैः परिवृतस्तदा