भगवन्सितकृष्णे द्वे के स्त्रियौ द्विजस त्तम
कश्चासौ पुरुषो ब्रह्मन्य एकः सप्तधाऽभवत्
एते स्त्रियौ त्वया दृष्टे सितकृष्णे नृपोत्तम
शीर्षद्वयं च यद्दृष्टं तेऽयने द्वे प्रकीर्तिते पादा द्वादश ये दृष्टा मासा द्वादश ते स्मृताः
यः पुमान्सप्तधा जात एकीभूतो नरेश्वर
एतत्संवत्सरं चक्रं त्वत्प्रियार्थं निदर्शितम्
सर्वो विनश्वरो लोकः सदेवासुरमानुषः 5.2.54.
कुरु शत्रुविनाशाय लिंग स्यास्य च दर्शनम्
एवमुक्तस्तदा राजा दृष्टवाँल्लिंगमुत्तमम् विद्वेषिणो मृतास्तेऽपि श्रुतास्तेन महीभृता
गतस्तं विषयं राजा चक्रवर्ती बभूव ह
यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान्
लब्धं निष्कण्टकं राज्यं लिंगस्यास्य च दर्शनात्
अतो नाम सुविख्यातं कण्टेश्वर इति क्षितौ
अद्यप्रभृति पश्यन्ति देवं कण्टेश्वरं शिवम्
नैमिषेथ कुरुक्षेत्रे गंगाद्वारे च पुष्करे तत्पुण्यं भविता सम्यक्छ्रीगणेश्वरदर्शनात्
गृहिणो लिंगिनो वापि ये पश्यंति यतव्रताः
जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम् 5.2.54.
दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत्
एवं ब्रुवाणं तं विप्रं तापसं संशितव्रतम्
जरारोगविनिर्मुक्तः सर्वशोकविवर्जितः अवध्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः
एवमुक्तोऽथ लिंगेन तापसो गणतां गतः
अन्धकेन पुरा युद्धे सिंहनादो यदा कृतः
उत्पन्नं च तदा लिंगमशेषारिविनाशनम् अतः कंटेश्वरो देवो विख्यातो भुवनत्रये
एष ते कथितो देवि प्रभावः पापनाशनः
श्रीईश्वर उवाच पंचाधिकं विजानीहि पंचाशत्तममीश्वरम्
सद्यःकल्पे त्वया देवि मदर्थं हि महत्तपः तपसा तव रौद्रेण दग्धं हि भुवनत्रयम्
दुष्करं हि तपो ज्ञात्वा भगवां श्चतुराननः
किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते
त्वया च वचनं श्रुत्वा गुरोर्गौरवगर्भितम्
प्रत्युक्तः स तदा ब्रह्मा प्रणामनम्रया त्वया