आपूर्यमाणं भवता तेजसा गगनांतरम्
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः
पृथ्वी च सकला चैव तप्यमाना तवौजसा 1.3.1.2.
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम्
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः
अयनद्वयभिन्नेन गमनेनापि संयुतः
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम्
ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम्
सर्वावयवदानेन सर्वव्याधिविनाशनात् 1.3.1.2.
तथेति वरदं देवमरुणाद्रिपतिं शिवम्
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम्
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः
आरामं मंडपं चापि कूपं विधिविशोधनम्
अंगप्रदक्षिणं कुर्वन्नष्टैश्वर्यसमन्वितः
आवामप्यविमुंचंतौ सदा त्वत्पादपंकजम्
तथास्त्विति वरं दत्त्वा विष्णवे चंद्रशेखरः 1.3.1.2.
तैजसं लिंगमेतद्धि सर्वलोकैककारणम्
युगांतसमये क्षुब्धैश्चतुर्भिरपि सागरैः
गजप्रमाणैः पृषतैः पूरयंतो जगत्त्रयम्
प्रवृत्ते भूतसंहारे प्रकृतौ प्रतिसंचरे
मया चाहूयमानेभ्यः प्रलयानंतरं पुनः
सर्वासामपि विद्यानां कलानां शास्त्रसंपदाम्
यद्गुहागह्वरांतस्स्था मुनयः शंसितव्रताः