तेनर्षिणा वसिष्ठेन दृष्टमात्रः स भूपतिः
ज्ञात्वा तपःप्रभावेन सूर्यवंशोद्भवं नृपम्
स नृपः कथयामास वसिष्ठाय सुदुःखितः
त्वामहं शरणं प्राप्तो दुःखैकायतनो यतः उपदेशप्रदानेन प्रसादं कर्तुमर्हसि
तस्य तद्वचनं श्रुत्वा वसिष्ठो भगवानृषिः
महाकालवनं भूप व्रज त्वं कार्यसिद्धये
तस्यास्तीरे शुभं लिंगं पृथुकेश्वर दक्षिणे अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ।। 5.2.54.
वचनात्तस्य विप्रस्य वसिष्ठस्य महात्मनः
ददर्श तापसं तत्र चिरंजीविनमव्ययम्
तापसेन नृपो दृष्टो मित्रोऽयं मम वल्लभः
एह्येहि नृपशार्दूल दिष्ट्या प्राप्तोऽसि मेंऽतिके
तद्धुंकारात्तु पातालं भित्त्वा पंच च कन्यकाः
भृंगारं तु गृहीत्वान्या निःसृता जलसंभृतम्
अन्ये द्वे व्यजने गृह्य पार्श्वाभ्यां च व्यवस्थिते
तेन हुंकारशब्देन देवलोकात्समागतम्
अनंतरं ददर्शाथ लिंगं ज्योतिष्करं परम्
तद्दृष्ट्वा विस्मयाविष्टो बभूव नृपसत्तमः 5.2.54.
एवं पृष्टो नृपेणाथ स विप्रो वाक्यमब्रवीत्
अतस्ते दर्शिता माया तपसा दुष्करेण तु
हुंकारेण कृता पृथ्वी जलपूर्णा तु तत्क्षणात्
हुंकारात्पृथिवी सर्वा जाता वह्निमयी तदा
हुंकारेण कृतं सर्वं तत्क्षणादेव पार्वति
ततो बभ्राम तन्नास्ति स नृपो विस्मयान्वितः
एवं चिंतयतस्तस्य ततः शब्दो महानभूत्
सुहर्म्यकक्ष्यारचितं विशालं विशुद्धजांबूनदभूषितं च
भूयोभवन्महाशब्दस्तस्मात्स्त्रीयुगलं वभौ
पुनः शब्दो बभूवाथ तस्मात्पुरुषसत्तमः 5.2.54.
पुनः शब्दाच्च संजज्ञे पुरुषः सप्तधा गतः प्रोक्तमित्थं विशालाक्षि जातकंटकितं नृपम्
पश्य लोकमिमं मह्यं तपसा निर्मितं नृप
एवमुक्तस्तदा तेन तापसेन नराधिपः