तत्रैव लिंगमासन्नं साध्वि शूलेश्वरोत्तरे
क्षणेन निधनं प्राप्तः स गतस्त्रिदशालयम्
जातः ख्यातो विदर्भायां विश्वेशोनाम पार्थिवः
दुर्लभान्बुभुजे भोगान्प्राप्तं राज्यं चकार सः संस्मरन्पूर्ववृत्तांतं जगामावंतिकां पुरीम्
तत्र दृष्ट्वा महल्लिंगं दुर्दर्शमतितेजसा
लिंगमध्ये स्थिताः सर्वे सागराः सरितस्तथा
चंद्रमाः सह नक्षत्रैरादित्यश्चाग्निना सह
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः
ब्रह्माद्या देवताश्चान्याः स्कंदो लंबोदरस्तथा
प्रभावं तस्य लिंगस्य ज्ञात्वा सम्यङ्महीपतिः 5.2.53.
प्रसन्नश्चाभवत्तस्य वचनं चेदमब्रवीत्
तेनोक्तं वचनं राज्ञा यदि तुष्टोसि मे प्रभो
मा भूत्तेषां प्रपतनं घोरे संसारसागरे
इत्युक्ते वचने भूयो विश्वेशोऽलंकृतो गणैः
गणैर्नानाविधैः सार्द्धं स्तूयमानो वरानने विमानं तस्य तद्दिव्यं परिक्रम्य समंततः
समहेंद्रधनाध्यक्षनानानाकनिवासिनः
नृत्येनामरनारीणां विलोकितविनोदकः
अतो देवि भुवि ख्यातो देवो विश्वेश्वरेश्वरः
सप्तजन्मकृतैर्देही मनोवाक्कायकर्मभिः
तस्य नश्यति दौर्भाग्यमलक्ष्मीर्नाशमेति च 5.2.53.
दुःस्वप्नो व्याधयः क्रूरा ग्रहा भूताश्च दारुणाः
ये केचिच्छ्रद्धया युक्ता लिंगमाराधयंति वै
अंते गतिश्च सा दिव्या जायते मत्प्रसादतः
न तत्र दुर्भिक्षभयं नापमृत्युभयं क्वचित्
एते च विष्णुब्रह्मेंद्रकुबेरवरुणादयः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये विश्वेश्वरमाहात्म्यवर्णनंनाम त्रिपंचा शत्तमोऽध्यायः
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत
आद्यकल्पे पुरा देवि राजाभूत्सत्यविक्रमः
वनं जगाम गहनमेकाकी श्रमकर्शितः