स्नातुकामामथो रामामाजघानातिपापकृत्
पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः
मंत्री मंत्रविदां श्रेष्ठो ब्राह्मणस्तं जघान ह
तीक्ष्णदंष्ट्रः करालास्यो मांसशोणितभोजनः
आक्रम्य निमिराजेन राज्ञा राक्षसशत्रुणा
दारुणः सारमेयोऽभूदतिकृष्णोऽष्टमे भवे
नवमे जंबुको जातः श्मशाने स च मांसभुक्
दशमे त्वभवद्गृध्रस्तीक्ष्णतुंडो भयावहः
एकादशे ऽपि चंडालो गतोऽवंत्यां वरानने
स दंडपाशिकेनैव प्राप्तो बद्धश्च तत्क्षणात् 5.2.53.
तत्रैव लिंगमासन्नं साध्वि शूलेश्वरोत्तरे
क्षणेन निधनं प्राप्तः स गतस्त्रिदशालयम्
जातः ख्यातो विदर्भायां विश्वेशोनाम पार्थिवः
दुर्लभान्बुभुजे भोगान्प्राप्तं राज्यं चकार सः संस्मरन्पूर्ववृत्तांतं जगामावंतिकां पुरीम्
तत्र दृष्ट्वा महल्लिंगं दुर्दर्शमतितेजसा
लिंगमध्ये स्थिताः सर्वे सागराः सरितस्तथा
चंद्रमाः सह नक्षत्रैरादित्यश्चाग्निना सह
मरुतो देवगंधर्वा ऋषयश्च तपोधनाः
ब्रह्माद्या देवताश्चान्याः स्कंदो लंबोदरस्तथा
प्रभावं तस्य लिंगस्य ज्ञात्वा सम्यङ्महीपतिः 5.2.53.
प्रसन्नश्चाभवत्तस्य वचनं चेदमब्रवीत्
तेनोक्तं वचनं राज्ञा यदि तुष्टोसि मे प्रभो
मा भूत्तेषां प्रपतनं घोरे संसारसागरे
इत्युक्ते वचने भूयो विश्वेशोऽलंकृतो गणैः
गणैर्नानाविधैः सार्द्धं स्तूयमानो वरानने विमानं तस्य तद्दिव्यं परिक्रम्य समंततः
समहेंद्रधनाध्यक्षनानानाकनिवासिनः
नृत्येनामरनारीणां विलोकितविनोदकः
अतो देवि भुवि ख्यातो देवो विश्वेश्वरेश्वरः
सप्तजन्मकृतैर्देही मनोवाक्कायकर्मभिः
तस्य नश्यति दौर्भाग्यमलक्ष्मीर्नाशमेति च 5.2.53.