लयंगतो यदोंकारस्तदाप्रभृति पार्वति
यद्युगादिसहस्रेषु व्यतीपातशतेषु च तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ।।5.2.52.
चतुर्ष्वपि च वेदेषु समधीतेषु यत्फलम्
ब्रह्मचर्येण यत्पुण्यं यावज्जीवं कृतेन च
करीषसाधने पुण्यं यच्च पुण्यमनाशके
पूजायां यत्फलं प्रोक्तं तस्य संख्या न विद्यते
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः
पूजनात्स्पर्शनाद्वापि कीर्त्तनाच्छ्रवणात्तथा
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ॐकारेश्वरमाहात्म्यवर्णनंनाम द्विपंचाशत्तमोऽध्यायः
परं विश्वेश्वरं ख्यातं विश्वेषु भुवनेष्वपि
बभूव नृपतिः पूर्वं विदर्भायां विदूरथः
जघान तापसं सोऽथ प्रमादान्मृगया गतः
मृगं मत्वा महारण्ये ब्राह्मणं देवमोहितः
तत्रासौ यातना घोरां अनुभूयात्मकालतः
अदशत्सोऽपि कोपेन ब्राह्मणं चरणे प्रिये
च्युतस्तु नरकात्सिंहो द्वितीयेऽभूत्सुदारुणः
पुनर्व्याघ्रो बभूवासौ तृतीयेऽपि भवांतरे
तेनापि वैश्यो निधनं नीतः कश्चिद्वनांतरे
चतुर्थे ऽपि गजो जातः सिंहाद्वधमवाप्तवान् । 5.2.53.
स्नातुकामामथो रामामाजघानातिपापकृत्
पुनः षष्ठे भवे जातः पिशाचः पिशिताशनः
मंत्री मंत्रविदां श्रेष्ठो ब्राह्मणस्तं जघान ह
तीक्ष्णदंष्ट्रः करालास्यो मांसशोणितभोजनः
आक्रम्य निमिराजेन राज्ञा राक्षसशत्रुणा
दारुणः सारमेयोऽभूदतिकृष्णोऽष्टमे भवे
नवमे जंबुको जातः श्मशाने स च मांसभुक्
दशमे त्वभवद्गृध्रस्तीक्ष्णतुंडो भयावहः
एकादशे ऽपि चंडालो गतोऽवंत्यां वरानने
स दंडपाशिकेनैव प्राप्तो बद्धश्च तत्क्षणात् 5.2.53.