देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः
अनुग्रहपरो देव मूर्तिं दर्शय शंकर
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् 1.3.1.2.
तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः
परशुं बालहरिणं करैरभयविश्रमौ
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः
इति देवस्य वचनात्सप्रीतौ च कृतांजली
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम्
आपूर्यमाणं भवता तेजसा गगनांतरम्
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः
पृथ्वी च सकला चैव तप्यमाना तवौजसा 1.3.1.2.
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम्
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः
अयनद्वयभिन्नेन गमनेनापि संयुतः
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः
अमरत्वं च सिद्धत्वं रससिद्धीश्च निर्वृतिम्
ईशत्वं च वशित्वं च सौभाग्यं कालवंचनम्
सर्वावयवदानेन सर्वव्याधिविनाशनात् 1.3.1.2.
तथेति वरदं देवमरुणाद्रिपतिं शिवम्
प्रसीद करुणापूर्ण शोणशैलेश्वर प्रभो
यदाहं त्वामुपाश्रित्य जगद्रक्षणदक्षिणः
नाल्पपुण्यैरुपास्येत त्वद्रूपं महदद्भुतम्
प्रदक्षिणानमस्कारैर्नृत्यगीतैश्च पूजनैः
उपवासैर्व्रतैः सत्रैरुपहारैस्तथार्चनैः
आरामं मंडपं चापि कूपं विधिविशोधनम्