षट्कुक्षिः सा त्रिपादा च पंचशीर्षोपलक्षिता
गायत्री मधुराभाषा सावित्री लोकविश्रुता सृष्टिं कुरु ममादेशाद्विचित्रामनया सह ।। 5.2.52.
इत्युक्तस्त्रिशिखो भूत्वा हिरण्यसदृशाकृतिः
पूर्वं देवगणाश्चैव त्रयस्त्रिंशच्च देवताः
तेषां देहे प्रविष्टानां प्रादुर्भावः पुनर्भवेत्
संहृत्योंकारमखिलान्सदेवासुरपन्नगान्
ससर्ज सर्वभूतानि कल्पांते पर्वतात्मजे
कर्त्ता चैव विकर्त्ता च संहर्ता च महांस्तु यः
ओंकारपूर्वकं ज्ञानं तपश्चोंकारपूर्वकम्
स वायुरिति विज्ञेयः सर्वज्ञः स प्रजाकरः
प्रजानां पतयश्चैव सप्त चैव महर्षयः
दैत्याः पिशाचा रक्षांसि भूतानि विविधानि च सर्वे चतुष्पदाश्चैव तिर्यग्योनिगतास्तदा ।। 5.2.52.
जंगमानि च सत्त्वानि यच्चान्यज्जीवसंज्ञकम्
प्रणम्य प्रयतो भूत्वा वचनं चेदमब्रवीत्
देहि मे परमं स्थानं यथा कीर्त्तिर्ध्रुवा भवेत्
ममाभीष्टकरं स्थानं नित्यमव्ययमक्षयम्
तत्र ते भविता कीर्त्तिः शाश्वती नात्र संशयः
त्रिकल्पप्रभवं लिंगं त्वन्नाम्ना ख्यातिमेष्यति
इत्युक्तो हि मया देवि ओंकारो हृष्टमानसः
ततः प्रभृति वेदेषु ओंकारः क्रियते द्विजैः
लयंगतो यदोंकारस्तदाप्रभृति पार्वति
यद्युगादिसहस्रेषु व्यतीपातशतेषु च तत्पुण्यमधिकं देवि ॐकारेश्वरदर्शनात् ।।5.2.52.
चतुर्ष्वपि च वेदेषु समधीतेषु यत्फलम्
ब्रह्मचर्येण यत्पुण्यं यावज्जीवं कृतेन च
करीषसाधने पुण्यं यच्च पुण्यमनाशके
पूजायां यत्फलं प्रोक्तं तस्य संख्या न विद्यते
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः
पूजनात्स्पर्शनाद्वापि कीर्त्तनाच्छ्रवणात्तथा
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्य ॐकारेश्वरमाहात्म्यवर्णनंनाम द्विपंचाशत्तमोऽध्यायः