संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम्
गिरींद्रतनयानाथं गिरींद्रशिखरालयम्
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि 5.2.51.
स च शूलवरो देवि मया प्रोक्तो मुदा तदा
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्
संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः
यदि प्रसन्नो भगवन्करुणा मयि ते यदि दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः
ततो मया समादिष्टः करुणाश्लिष्टचेतसा
तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम्
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः
लिंगेन च पुनर्दृष्टः शूलः शंकरवल्लभः
स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः
प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोंतिके अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि ।। 5.2.51.
ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम्
ते प्राप्स्यंति फलं सर्वंं ये त्वां द्रक्ष्यंति भक्तितः
यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः
विमानवरमास्थाय कामगं रत्नभूषितम्
त्वन्नाम ये ग्रहीष्यंति सर्वदा भयपीडिताः न भविष्यति भीस्तेषां घोरसंसारसागरे
ये त्वां द्रक्ष्यंति पुरुषा भावहीनाः प्रसंगतः
इत्युक्तं तेन शूलेन लिंगमाश्लिष्य यत्नतः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये शूलेश्वरमाहात्म्यवर्णनंनामैकपञ्चाशत्तमोऽध्यायः
ओंकारेश्वर इत्याख्या यस्यास्ति भुवनत्रये
प्राकृते कल्पसंज्ञे तु प्रथमे प्रथमं मया
ततः स पुरुषो दिव्यः किं करोमीत्युपस्थितः
निर्वाणस्येव दीपस्य गतिस्तस्य न लक्षिता
एवं चिंतयतस्तस्य चतुर्मित्योत्थितस्ततः
ऋग्यजुःसामनामा च ब्रह्मविष्णुशिवात्मकः
ओंकार इति तस्याख्या मया दता प्रसादतः
हृदयात्तस्य देवस्य वषट्कारः समुत्थितः