इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम समायातः सहामात्यो बलेन चतुरंगिणा
मया सह ततस्तस्य घोरं युद्धमभूच्चिरम्
ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः युयुधे स महादैत्यः शूलेन ताडितो मया 5.2.51.
मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः
सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान्
संभूताः कोटिशो देवि तैरहं पुनरर्द्दितः
मया चोत्पादिता दुर्गा रक्तदंता सुभीषणा
तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे तेन शूलवरेणैव तत्क्षणान्निधनं गताः
स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः
स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत्
संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम्
गिरींद्रतनयानाथं गिरींद्रशिखरालयम्
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि 5.2.51.
स च शूलवरो देवि मया प्रोक्तो मुदा तदा
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्
संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः
यदि प्रसन्नो भगवन्करुणा मयि ते यदि दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः
ततो मया समादिष्टः करुणाश्लिष्टचेतसा
तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम्
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः
लिंगेन च पुनर्दृष्टः शूलः शंकरवल्लभः
स्नेहात्संश्लेषितोऽत्यर्थं पृष्टस्तु कुशलं पुनः
प्रभुणा प्रेरितोऽत्यर्थं शुद्ध्यर्थं भवतोंतिके अद्यप्रभृति भूलोके मन्नाम्ना ख्या तिमेष्यसि ।। 5.2.51.
ततो भविष्यत्यधिकं दर्शनात्ते वृणोम्यहम्
ते प्राप्स्यंति फलं सर्वंं ये त्वां द्रक्ष्यंति भक्तितः
यः करिष्यति ते पूजां भक्तियुक्तोऽपि मानवः
विमानवरमास्थाय कामगं रत्नभूषितम्
त्वन्नाम ये ग्रहीष्यंति सर्वदा भयपीडिताः न भविष्यति भीस्तेषां घोरसंसारसागरे
ये त्वां द्रक्ष्यंति पुरुषा भावहीनाः प्रसंगतः
इत्युक्तं तेन शूलेन लिंगमाश्लिष्य यत्नतः