इत्युक्त्वा पूजयामास भूयो लिंगं शनैश्चरः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये स्थावरेश्वरमाहात्म्य वर्णनंनाम पंचाशत्तमोऽध्यायः
देवं शूलेश्वरं देवि सर्व व्याधिविनाशनम्
आद्ये कल्पे प्रवृत्ते च राज्यहेतोर्वरानने दैत्यानामीश्वरे जंभे देवानां च शचीपतौ
ततो देवाः पराभूता दैत्या विजयिनोऽभवन्
स दूतो मामुवाचोच्चैः सगर्वो दुष्टमानसः
गौरीं मे देहि पत्न्यर्थं मंदरस्त्यज्यतामयम्
उक्तोऽहं तेन दूतेन त्वया सह महागिरौ
गच्छ दूत ममादेशादंधकं ब्रूहि सत्वरम्
इत्युक्तः प्रययौ दूतस्तेनाख्यातं वचो मम समायातः सहामात्यो बलेन चतुरंगिणा
मया सह ततस्तस्य घोरं युद्धमभूच्चिरम्
ततः कुद्धोंऽधको देवि रथात्तस्मादवप्लुतः युयुधे स महादैत्यः शूलेन ताडितो मया 5.2.51.
मया धृतोन्तरिक्षे स शूलप्रोतो महासुरः
सुस्राव तस्य गात्रेभ्यः शोणितोघ स्ततो महान्
संभूताः कोटिशो देवि तैरहं पुनरर्द्दितः
मया चोत्पादिता दुर्गा रक्तदंता सुभीषणा
तस्मिन्पीते ततो रक्ते नोत्तस्थुर्देवि चापरे तेन शूलवरेणैव तत्क्षणान्निधनं गताः
स मामुवाच हृष्टात्मा कृतां जलिपुटोंऽधकः
स्वामिना निहतश्चाहं कोऽन्यो धन्यतरो हि मत्
संकल्पाक्षेपविक्षेपं कल्पकार्यप्रवर्त्तकम्
गिरींद्रतनयानाथं गिरींद्रशिखरालयम्
एवं स्तुतोऽहं दैत्येन शूलप्रोतेन सुन्दरि 5.2.51.
स च शूलवरो देवि मया प्रोक्तो मुदा तदा
परितुष्टः प्रयच्छामि परमं स्थानमुत्तमम्
संप्राप्यं मामनाराध्य तथा विध्वस्तकल्मषैः
यदि प्रसन्नो भगवन्करुणा मयि ते यदि दुष्टसंपर्कसंजातमन्यत्पातकमात्मनः
ततो मया समादिष्टः करुणाश्लिष्टचेतसा
तत्रास्मत्प्राप्तिदं लिंगं लोकानुग्रहकारकम्
मदीयं वचनं श्रुत्वा स जगाम त्वरान्वितः