सूर्यस्य वचनं श्रुत्वा हरिः प्राप्तस्तु तत्क्षणात्
गम्यतां तत्र यत्रास्ते देवदेवो महेश्वरः
वृत्तांतः कथितः सर्वो रविपुत्रस्य पार्वति
अधोदृष्टिर्मया दृष्टो वक्रांगो रूपतोऽसितः
किमर्थं वै स्मृतो देव देह्याजां मम शंकर
इत्युक्तोऽहं तदा तेन रविपुत्रेण पार्वति
तेनोक्तं देहि मे स्थानं पानमाहारमेव च
मेषादिराशिसंस्थः संस्त्रिंशन्मासान्प्रपीडय
अष्टमश्च चतुर्थश्च द्वितीयो जन्मसंस्थितः 5.2.50.
एकादशो वा षष्ठो वा तृतीय स्थानगोथवा
पंचमो नवमश्चैव उदासीनस्तु सप्तमः
पूजां प्राप्स्यसि चात्यर्थं ग्रहाणामधिकं सदा
अतस्ते स्थावरं नाम भविष्यति महीतले
अतः शनैश्चरोनाम भविष्यसि सदा भुवि
वर्णतो ह्यसितो नाम भविष्यसि महीतले तुष्टो ददासि राज्यं च रुष्टो वै हरसि क्षणात्
देवासुरमनुष्याश्च सिद्धविद्याधरोरगाः ।। त्वत्क्रूरदृष्टिनिहता नाशं यास्यंति नान्यथा
तव प्रसादात्प्राप्स्यंति मनोऽभीष्टं सुदुर्ल्लभम्
मनोभीष्टकरं पुण्यं देवदानवदुर्लभम्
तत्र गच्छ ममादेशत्त्वपृथुकेश्वरपश्चिमे 5.2.50.
कीर्त्तिरेषा त्वदीयापि त्रैलोक्ये भविता धुवम्
इत्युक्तः स्थावरो देवि ममाज्ञापालकस्तदा
दृष्ट्वा तत्रैव तल्लिंगं स्थानं लब्धं सुशोभनम्
शनिनोक्तं तदा देवि येऽत्र द्रक्ष्यंति भक्तितः तेषां पीडा मदीया तु न भविष्यति कर्हिचित्
मदीये च दिने यो वै नियमेन प्रपश्यति
धक्ष्यामि सततं पीडामन्यग्रहकृतामपि
न ग्रहा न पिशाचाश्च न यक्षा न च राक्षसाः
संक्रांतौ शनिवारे च व्यतीपातेऽयने तथा भविष्यत्यक्षयस्तेषां स्थिरो वासस्त्रिविष्टपे
नियमेन प्रपश्यंति मम वारेऽत्र ये नराः
भविष्यति न दारिद्र्यं न चैवेष्टवियोजनम् ।। 5.2.50.
अधनस्य धनं चैव भयार्त्तस्याभयं तथा