अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते
स्वयमीश महादेव प्रसीद भुवनाधिक
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः 1.3.1.2.
अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात्
जय त्रिभुवनाधीश जय गंगाधर प्रभो
अव्याजममितं शंभो कारुण्यं तव वर्द्धते
पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः
देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम्
देशकालक्रियायोगाद्यथाग्नेर्भेदसम्भवः
अनुग्रहपरो देव मूर्तिं दर्शय शंकर
एवं प्रणमतोर्देवः श्रद्धाभक्तिसमन्वितम् 1.3.1.2.
तेजःस्तंभात्पुनस्तस्माद्देवश्चन्द्रार्द्धशेखरः
परशुं बालहरिणं करैरभयविश्रमौ
परितुष्टोऽस्मि युवयोर्भक्त्या युक्तात्मनोर्मयि
युवयोरिष्टसिद्ध्यर्थमाविर्भूतोऽस्म्यहं यतः
इति देवस्य वचनात्सप्रीतौ च कृतांजली
अहं मन्त्रैः शिशुप्रायजगत्त्रयविधायकः
नमस्येहमिदं रूपं शश्वद्वरदमीश्वरम्
आपूर्यमाणं भवता तेजसा गगनांतरम्
सिद्धचारणगन्धर्वा देवाश्च परमर्षयः
पृथ्वी च सकला चैव तप्यमाना तवौजसा 1.3.1.2.
उपसंहृत्य तेजः स्वमरुणाचलसंज्ञया
ज्योतिर्मयमिदं रूपमरुणाचलसंज्ञितम्
सेवंतां सकला लोकाः सिद्धाश्च परमर्षयः
दिव्याराम समुद्भूतकल्पकाद्याः सुरद्रुमाः
दिव्यौषधिगणास्सर्वे सिंहाद्या मृगजातयः
अयनद्वयभिन्नेन गमनेनापि संयुतः
दिव्य दुंदुभिशंखानां घोषैः पुष्पौघवृष्टिभिः