ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः
ये च द्रक्ष्यंति देवेशं पृथुकेश्वरमीश्वरम्
अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम्
वाचिकं मानसं वापि कायिकं गुह्यसंभवम् तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात् ।। 5.2.49.
पूजयिष्यंति ये भक्त्या देवं वै पृधुकेश्वरम्
भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले
इत्युक्त्वा देवसंघैश्च पूजितः पृथुकेश्वरः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः
यस्य दर्शनमात्रेण ग्रहबाधा न जायते
संज्ञानाम रवेर्भार्या सा सुता विश्वकर्मणः छायामयी चात्मनस्तु निर्मिता तरसा तया
सा प्रोक्ता सादरेणैव स्थीयतां सूर्यसंनिधौ
इत्युक्त्वा सा तदा संज्ञा जगाम भवनं पितुः जनयामास तनयं नामतो यः शनैश्चरः
तस्मिञ्जाते भयं जग्मुः सदेवासुरमानुषाः
इन्द्रोऽपि भयसंत्रस्तो ब्रह्माणं शरणं गतः
भिन्नं तु रोहिणीचक्रं व्याप्तं नक्षत्रमंडलम्
वासवस्य वचः श्रुत्वा ब्रह्मा लोकपितामहः
मर्यादा क्रियतां भानो वार्यतां पुत्र औरसः
ब्रह्मणो वचनं श्रुत्वा रविणा प्रोक्तमीदृशः 5.2.50.
पश्य मे चरणौ दग्धौ दृष्टिमात्रेण लीलया
सूर्यस्य वचनं श्रुत्वा हरिः प्राप्तस्तु तत्क्षणात्
गम्यतां तत्र यत्रास्ते देवदेवो महेश्वरः
वृत्तांतः कथितः सर्वो रविपुत्रस्य पार्वति
अधोदृष्टिर्मया दृष्टो वक्रांगो रूपतोऽसितः
किमर्थं वै स्मृतो देव देह्याजां मम शंकर
इत्युक्तोऽहं तदा तेन रविपुत्रेण पार्वति
तेनोक्तं देहि मे स्थानं पानमाहारमेव च
मेषादिराशिसंस्थः संस्त्रिंशन्मासान्प्रपीडय
अष्टमश्च चतुर्थश्च द्वितीयो जन्मसंस्थितः 5.2.50.
एकादशो वा षष्ठो वा तृतीय स्थानगोथवा