स विप्रैरभिषिक्तश्च तपः कृत्वा सुदुष्करम्
स च स्वाध्यायरहिता निर्वषट्कारनिर्द्धनाः
स दोग्धुमैच्छत्त्रैलोक्यं सदेवासुरमानुषम्
एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तयः
लोकत्रयविनाशाय मा कोपं कुरु भूपते गिलितानि च अन्नानि विद्ध्येवैतन्मतं मम ।। 5.2.49.
नारदस्य च वाक्येन क्रोधं चक्रे पृथुस्तदा
मुमोच शस्त्रमाग्नेयं तेन सा धरणी तदा
सा वध्यमाना तेनैव नृपं वचनमब्रवीत्
गौरवध्या महीपाल वत्सं कृत्वा च दुग्धि माम्
तस्यास्तद्वचनं श्रुत्वा दुदोह नृपसत्तमः
जाताः प्रजाश्च सुमुखाः प्रवृत्तश्च महोत्सवः
राजाथ चिंतयामास मया पापमिदं कृतम्
एवं चिंतयतस्तस्य पृथोरमिततेजसः
दृष्ट्वा तथाविधं दीनं चिंतयानं पृथुं प्रिये 5.2.49.
ततः स कथयामास मया पापमिदं कृतम्
काँल्लोकानु गमि ष्यामि कृत्वा कर्म सुदारुणम्
अथ चेष्टोपदेशेन दुःखादुद्धर मां द्विज महापापप्रशमनं लिंगमाहात्म्यमुत्तमम्
महाकालवने लिंगमभयेश्वरपश्चिमे गच्छ त्वं सहसा राजंस्तत्र पूतो भविष्यसि
नारदस्य वचः श्रुत्वा पृधुस्तत्र जगाम सः
द्वादशादित्यसंकाशो बभूव पृथिवीपतिः
ततोंऽतरिक्षगैर्देवि कृतं नाम वरानने अद्यप्रभृति विख्यातो देवोऽयं पृथुकेश्वरः
ये च द्रक्ष्यंति देवेशं पृथुकेश्वरमीश्वरम्
अज्ञानाज्ज्ञानतो वापि यत्पापं जायते नृणाम्
वाचिकं मानसं वापि कायिकं गुह्यसंभवम् तत्सर्वं यास्यति क्षिप्रं पुथुकेश्वरदर्शनात् ।। 5.2.49.
पूजयिष्यंति ये भक्त्या देवं वै पृधुकेश्वरम्
भुक्त्वा राज्यं मनुष्याणां देवानां च महीतले
इत्युक्त्वा देवसंघैश्च पूजितः पृथुकेश्वरः
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये पृथुकेश्वरमाहात्म्यवर्णनंनामैकोनपंचाशत्तमोऽध्यायः
यस्य दर्शनमात्रेण ग्रहबाधा न जायते