इत्युक्त्वा कृतसंकेतौ तौ दैत्यौ बलगर्वितौ
ब्रह्मविष्णू तदा दृष्ट्वा दानवौ दुर्जयौ रणे
अन्योन्यमूचतुस्तौ हि देशकालोचितं वचः
उपस्थितं भयं घोरं तत्र किं कार्यमस्ति नौ
गम्यतां कृष्ण शीघ्रं वै महाकालवनोत्तमम् अहं तत्र गमिष्यामि व्रज त्वं तत्र केशव ।। 5.2.48.
इत्युक्तो ब्रह्मणा कृष्णो जगाम सह तेन वै तत्रापि दशसाहस्रकालः पर्यटतोस्तयोः
ततो ज्वालामयं दिव्यं नूपुरेश्वरदक्षिणे प्रार्थयांचक्रतुर्देवमभयं देहि नौ प्रभो
शरणं भव देवेश दानवाभ्यां प्रपीडितौ
शुश्राव गर्जितं ताभ्यां दानवाभ्यां पितामहः
स एष मृत्युरस्माकमेति शीघ्रं भयावहः
भयार्त्तवचनं श्रुत्वा ब्रह्मणः केशवस्य च
दृष्टं ताभ्यां जगत्सर्वं सार्कचंद्रमहीधरम्
समुद्रपीठसंयुक्तं नानावर्णाश्रमोज्ज्वलम्
ससप्तलोकविन्यासं सदेवासुरराक्षसम्
दृष्ट्वौ भस्मीकृतौ दैत्यौ तेन लिंगेन पार्वति 5.2.48.
लिंगेनोक्तं प्रसन्नेन भवद्भ्यां किं ददाम्यहम्
ततो ब्रह्मा च विष्णुश्च वरयामासतुर्वरम्
ये च त्वां पूजयिष्यंति यक्ष्यंति च समाहिताः
अभयेश्वरसंज्ञस्तु ख्यातो भुवि भविष्यसि
भविष्यति भयं नैव संसारपतनं तथा
दुःखिता दुर्भगा नारी दर्शनं या करिष्यति वीरं तु गुर्विणी कन्या पतिमाप्स्यति शोभनम्
यंयं काममभिध्याय ये त्वां पश्यंति मानवाः
एवं भविष्यतीत्युक्त्वा लिंगेन परमेश्वरि
एष ते कथितो देवि प्रभावः पापनाशनः
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे चतुरशीतिलिंगमाहात्म्येऽभयेश्वरमाहात्म्यवर्णनंनामाष्टाचत्वारिंशोऽध्यायः
शृणु पंचाशदेकोनं देवेशं पृथुकेश्वरम्
वंशे स्वायंभुवे देवि ह्यंगो राजा बभूव ह
वेननामा सुतो जातो नास्तिको धर्मदूषकः
स च शप्तो द्विजैर्देवि तत्क्षणान्निधनं गतः
शरीरे मातुरंशेन कृष्णांजनचयप्रभाः मथिताद्दक्षिणाद्धस्तात्पृथुः प्रथितविक्रमः