करालवदनो दुष्टो यमरूपो दुरासदः
तौ तु दैत्यौ समागत्य कृतसंकेतकौ तदा
ततो ब्रह्मा भयाविष्टः कांदिशीकश्चचार ह
पुरुषं पीतवसनं शंखचक्रगदाधरम् उवाच को भवाञ्छेते निःशेषेस्मिंश्चराचरे
तमुवाच ततो विष्णुरहमेवं जगत्पिता 5.2.48.
इत्युक्तः पद्मजस्तेन कृष्णेनाक्लिष्टकर्मणा
मया सृष्टं जगत्सर्वं सदेवासुरमानुषम्
भोक्तुकामौ क्षुधाविष्टौ दृष्ट्वा ब्रह्माब्रवीदिदम्
यदि त्वं कारणं किंचिदस्य लोकस्य कथ्यसे
तच्छ्रुत्वा तु तदा विष्णुर्ज्ञात्वा दुःखं परस्परम्
इत्युक्त्वा कृतसंकेतौ तौ दैत्यौ बलगर्वितौ
ब्रह्मविष्णू तदा दृष्ट्वा दानवौ दुर्जयौ रणे
अन्योन्यमूचतुस्तौ हि देशकालोचितं वचः
उपस्थितं भयं घोरं तत्र किं कार्यमस्ति नौ
गम्यतां कृष्ण शीघ्रं वै महाकालवनोत्तमम् अहं तत्र गमिष्यामि व्रज त्वं तत्र केशव ।। 5.2.48.
इत्युक्तो ब्रह्मणा कृष्णो जगाम सह तेन वै तत्रापि दशसाहस्रकालः पर्यटतोस्तयोः
ततो ज्वालामयं दिव्यं नूपुरेश्वरदक्षिणे प्रार्थयांचक्रतुर्देवमभयं देहि नौ प्रभो
शरणं भव देवेश दानवाभ्यां प्रपीडितौ
शुश्राव गर्जितं ताभ्यां दानवाभ्यां पितामहः
स एष मृत्युरस्माकमेति शीघ्रं भयावहः
भयार्त्तवचनं श्रुत्वा ब्रह्मणः केशवस्य च
दृष्टं ताभ्यां जगत्सर्वं सार्कचंद्रमहीधरम्
समुद्रपीठसंयुक्तं नानावर्णाश्रमोज्ज्वलम्
ससप्तलोकविन्यासं सदेवासुरराक्षसम्
दृष्ट्वौ भस्मीकृतौ दैत्यौ तेन लिंगेन पार्वति 5.2.48.
लिंगेनोक्तं प्रसन्नेन भवद्भ्यां किं ददाम्यहम्
ततो ब्रह्मा च विष्णुश्च वरयामासतुर्वरम्
ये च त्वां पूजयिष्यंति यक्ष्यंति च समाहिताः
अभयेश्वरसंज्ञस्तु ख्यातो भुवि भविष्यसि
भविष्यति भयं नैव संसारपतनं तथा