महाकालवनं रम्यं देवगंधर्वसेवितम्
प्राची सरस्वती तत्र वाप्याकारा च संस्थिता
ततो देवः प्रसन्नात्मा प्रत्युवाचाथ नूपुरम्
भविता वल्लभो देव्याः पार्वत्याः शंकरस्य च 5.2.47.
उदितादित्यसंकाशो विभावसुसम द्युतिः
प्रभावं तादृशं दृष्ट्वा देवैरुक्तं वरानने
प्राप्ता च कामिकी सिद्धिर्नूपुरेण च दर्शनात्
सर्वकामप्रदो नित्यं नूपुरेश्वर नामतः
नूपुरेश्वररुद्रस्य ते यांति परमं पदम् वसंति मुदिताः सर्वे यावदाभूतसंप्लवम्
जन्ममृत्युजरारोगदुःखानि विविधानि च
वापी गंगासमा सा तु स्वयमेव शुभेक्षणे प्रयागमेतज्जानीहि भूधरेंद्रांगसंभवे
तत्र स्नात्वा पुमान्देवि वाजपेयफलं लभेत्
कृष्णाष्टम्यां च यः स्नात्वा पूजयेन्नूपुरेश्वरम्
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.47.
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्ये नूपुरेश्वरमाहात्म्यवर्णनंनाम सप्तचत्वारिंशो ऽध्यायः
यस्य दर्शनमात्रेण न भवस्य भयं भवेत्
कल्पावसाने प्रथमे पाद्मे पद्मनिभेक्षणे ब्रह्मा वै चिंतयामास कथं सृष्टिर्भवेदिति
इत्याकुलितरूपस्य तस्य नेत्रद्वयात्तदा
तस्मादश्रुकणाज्जातो हारवोनाम दानवः
दक्षिणान्नयनाज्जातः कालकेलीतिविश्रुतः
करालवदनो दुष्टो यमरूपो दुरासदः
तौ तु दैत्यौ समागत्य कृतसंकेतकौ तदा
ततो ब्रह्मा भयाविष्टः कांदिशीकश्चचार ह
पुरुषं पीतवसनं शंखचक्रगदाधरम् उवाच को भवाञ्छेते निःशेषेस्मिंश्चराचरे
तमुवाच ततो विष्णुरहमेवं जगत्पिता 5.2.48.
इत्युक्तः पद्मजस्तेन कृष्णेनाक्लिष्टकर्मणा
मया सृष्टं जगत्सर्वं सदेवासुरमानुषम्
भोक्तुकामौ क्षुधाविष्टौ दृष्ट्वा ब्रह्माब्रवीदिदम्
यदि त्वं कारणं किंचिदस्य लोकस्य कथ्यसे
तच्छ्रुत्वा तु तदा विष्णुर्ज्ञात्वा दुःखं परस्परम्