मा भैर्मे कौतुकं पश्य भक्षोयं मम सांप्रतम्
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दंडसूनुना
स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया उवाच च वचो धैर्यमवष्टभ्य महाबली
ततस्त्वं छिद्रमासाद्य हंतुं मां दानवांतक
एवंविधो हि मधुभिद्यदि त्वं बलवानसि
त्वया कपटरूपेण बलिना कैटभादयः 5.2.46.
पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात् 5.2.46.
सापि विद्याधर्यवंतीं समृद्धां वीक्ष्य दूरतः 5.2.46.
तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् विधिं संपूजयेद्भक्त्या रक्तमाल्यांबरादिभिः ।। 5.2.46.
जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात ।। 5.2.46.
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः 5.2.46.
आविर्बभूव पुरतो लिंगरूपेण शंकरः 5.2.46.
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.46.
यस्य दर्शनमात्रेण प्राप्यंते सर्वसिद्धयः
पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः
स एकदा कुबेरस्य सभायां प्राप्य संस्थितः
ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा
तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा
नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि
उर्वशी तु ततः क्रुद्धा पुष्पगुच्छेन ताडिता
उवाच धनदस्तत्र क्रोधेनाकुलमानसः
यस्मात्त्वया रंगभंगः कृतः कामार्द्दितेन वै
कुबेरस्य च शापात्तु जगाम धरणीतलम् 5.2.47.
विलप्य सुभृशं सोऽथ शरणं परमेश्वरीम्
त्वं तुष्टा तु तदा जाता प्रत्यक्षा परमेश्वरी
गच्छ पुत्र ममादेशान्महाकालवनं शुभम्
तस्या दक्षिणतो वत्स विद्यते लिंगमुत्तमम्
सा प्राची स च देवेशस्त्वन्नाम्ना ख्यातिमेष्यति
त्वया च प्रेरितो देवि कीर्त्यर्थं तत्र गम्यताम्