त्वदंगसंगसंस्पर्शसुखस्वादातिमेदुरः
मनोरथाश्चिरं यावद्ये मे हृदि समेधिताः
जित्वा देवान्रणे सर्वानिंद्रादीन्मृगलो चने
आधायांके त्रिशूलं च सुष्वापेति प्रलप्य सः
वरं स्मरंती सा गौर्या विद्याधरकुमारिका आहूय तं नरवरं वरं सर्वांगसुंदरम्
विष्णुभक्तिकृतत्राणं प्राणनाथेति जल्प्य च
तमादाय त्रिशूलं च स तदामित्रजिन्नृपः 5.2.46.
जगादोत्तिष्ठ रे दुष्ट कन्यादूषणलालस
इति संश्रुत्य संप्राप्तः कस्य दृष्टोद्य चांतकः
मम प्रचंडदोर्दंडकंडूकंडूयनक्षमः
मा भैर्मे कौतुकं पश्य भक्षोयं मम सांप्रतम्
इत्युक्त्वा मुष्टिघातेन तेनोच्चैर्दंडसूनुना
स चक्रिणा कृतत्राणः पीडां नाल्पीयसीमपि
अथ कोपवता राज्ञा हतो वक्त्रे चपेटया उवाच च वचो धैर्यमवष्टभ्य महाबली
ततस्त्वं छिद्रमासाद्य हंतुं मां दानवांतक
एवंविधो हि मधुभिद्यदि त्वं बलवानसि
त्वया कपटरूपेण बलिना कैटभादयः 5.2.46.
पश्यतोऽस्य महाबाहोः स च प्राणाञ्जहौ क्षणात् 5.2.46.
सापि विद्याधर्यवंतीं समृद्धां वीक्ष्य दूरतः 5.2.46.
तस्योपरि शुभं पद्मं रविरश्मिप्रकाशितम् विधिं संपूजयेद्भक्त्या रक्तमाल्यांबरादिभिः ।। 5.2.46.
जातमात्रो व्रजेत्स्वर्गं पुनरायाति चात्र वै विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात ।। 5.2.46.
निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः 5.2.46.
आविर्बभूव पुरतो लिंगरूपेण शंकरः 5.2.46.
एष ते कथितो देवि प्रभावः पापनाशनः 5.2.46.
यस्य दर्शनमात्रेण प्राप्यंते सर्वसिद्धयः
पुरा राथन्तरे कल्पे नूपुरोनाम वै गणः
स एकदा कुबेरस्य सभायां प्राप्य संस्थितः
ननृतुश्चापरास्तत्र ह्युर्वशी योषितां वरा
तासां नृत्यं तदा वीक्ष्य नूपुरो गणपस्तदा
नृत्यमानस्ततो हृष्टः पुष्पगु च्छेन वक्षसि