तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्
सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः उपायं चापि पप्रच्छ गंतुं वै चंपकावतीम्
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे
भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम् वीणामादाय गायंतीं गाथामत्यंतसुस्वरम्
यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम्
गाथामिमां तु संगीय सरथा समहीरुहा 5.2.46.
भवानप्यविशंकं च ततः पोतान्महार्णवे
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम्
इत्युक्त्वांतर्हितो देवि स चतुर्मु खनंदनः
विवेशांतः समुद्रं च नगरीमाससाद ताम्
तेन राज्ञा त्रिजगतीसौंदर्यश्रीरिवैकिका
निरमायि प्रमोद्देशात्स्रष्टृसृष्टिर्वि लक्षणा
योषिद्रूपं समाश्रित्य तिष्ठत्यत्राकुतोभया
सा विलोक्याथ तं बालं नितरां मधुराकृतिम्
शंखचक्रांकसुभगभुजद्वयविराजि तम्
भवानीभक्तिबीजोत्थभूरुहं पुरुषाकृतिम् 5.2.46.
इति पर्याकुलीकृत्य चक्षुषी च मुहुर्मुहुः
तावद्गुप्तं समातिष्ठ शस्त्रागारेऽत्र गह्वरे
आगामिन्यां तृतीयायां परश्वः पाणिपीडनम्
मा तद्भीतिं कुरु युवंस्त्वत्कार्यं भविताचिरात्
स्थिरो वीरो महाबाहुर्दानवागमनेक्षणः
अथ सायं समायातो दानवो भीषणाकृतिः
आगत्य दानवो रौद्रः प्रलयांबुदनिस्वनः
गृहाणेमानि रत्नानि दिव्यानि वरवर्णिनि
दासीनामयुतं प्रातर्दास्यामि तव सुंदरि
गन्धर्वीणां किंनरीणां सततं परिचारिकाः 5.2.46.
राक्षसीनां शतान्यष्टौ शतमप्सरसां वरम्
यावत्संपत्तिसंभारो दिक्पालानां गृहेषु वै
दिव्यान्भोगान्मया सार्द्धं भोक्ष्यसे मत्परिग्र हात्