राज्ञा समर्चितः सोऽथ मधुपर्कविधानतः
सर्वभूतेषु गोविंदं परिपश्यन्विशांपते
यो वेदपुरुषो विष्णुर्यो यज्ञपुरुषो हरिः
तन्मयं पश्यतो विश्वं तव भूपालसत्तम
एष एव हि सारोऽत्र संसारे क्षणभंगुरे
परित्यज्य हि यः सर्वं विष्णुमेकं सदा भजेत्
हृषीकेशे हृषीकाणि यस्य स्थैर्यं गतान्यहो 5.2.46.
यौवनं धनमायुष्यं जलं पद्मदले यथा
वाचि चेतसि कर्णेऽथ यस्य देवो जनार्दनः निर्व्याजप्रणिधानेन शीलयित्वा श्रियःपतिम्
पुरुषोत्तमतां को न प्राप्तस्त्वमिव भूतले उपकर्तुमना ब्रूयां तन्निशामय भूपते
मालाविद्याधरसुता नाम्ना मलयगंधिनी
कपालकेतुपुत्रेण दानवेन बलीयसा
पाताले चंपकावत्यां नगर्यां सास्ति सांप्रतम्
दृष्टः प्रणम्य विज्ञप्तो यथा तच्च निशामय
बालक्रीडनकासक्तां मां जह्रे त्रस्तमान साम्
स स्वत्रिशूलघातेन म्रियते नान्यथा रणे
यदि कोपि कृतज्ञो मां हत्वेमं दुष्टदानवम् 5.2.46.
यद्यत्रोपचिकीर्षुस्त्वं रक्ष मां दुष्ट दानवात् विष्णुभक्तो युवा धीमान्पुत्रि त्वां परिणेष्यति
आतृतीयातिथि यथा तद्वाक्यं तथ्यतां व्रजेत्
इति तद्वचनाद्राजन्विष्णुभक्तिपरायणम्
तद्गच्छ कार्यसिद्ध्यै त्वं हत्वा तं दुष्टदानवम्
सा तु विद्याधरी बाला विलोक्य त्वां नरेश्वर पार्वतीवचनाद्दुष्टं घातयिष्यस्यसंशयम्
इति नारदवाक्यं स निशम्यामित्रजिन्नृपः उपायं चापि पप्रच्छ गंतुं वै चंपकावतीम्
नारदेन पुनः प्रोक्तः स राजा गिरिराजजे
भवान्द्रक्ष्यति पोतस्थकल्पवृक्षरथास्थिताम् वीणामादाय गायंतीं गाथामत्यंतसुस्वरम्
यत्कर्म विहितं येन शुभं वाप्यथवाऽशुभम्
गाथामिमां तु संगीय सरथा समहीरुहा 5.2.46.
भवानप्यविशंकं च ततः पोतान्महार्णवे
ततो द्रक्ष्यसि पाताले नगरीं चंपकावतीम्
इत्युक्त्वांतर्हितो देवि स चतुर्मु खनंदनः