व्यावर्त्तितः शिवेनैव निर्व्याजकरुणाजुषा
यत्तेजःपरमाणुभ्यस्तस्य पारं दिदृक्षते 1.3.1.1.
यदि बुद्धिं ददात्यस्मै तस्य नश्येदहंक्रिया
आकर्ण्य शीर्णाहंकारो ह्यहमात्मन्यचिंतयम्
संजायते शिवज्ञानमस्यैवानुग्रहादृते
पुनरुत्सहते चेतः स्वाहंकारस्य संग्रहे
शिवार्पितमनस्केभ्यः सिद्धेभ्यः सततं नमः
शिवमेनं विजानामि स्वात्महेतुं पुरःस्थितम्
देवाः सर्वे भविष्यंति सततं शमितारयः
तमेव शरणं यामि शंभुं विश्वविलक्षणम्
लब्धदेहः शिवं भक्त्या संश्रितश्चन्द्रशेखरम्
शंभुना यत्समुद्भूतमहंकारमुपाश्रितौ 1.3.1.1.
स एव शंकरः सर्वमहंकारमथावयोः
इममीश्वरमानतं सुरैरनलस्तम्भमयं सदाशिवम्
अस्तौषं भक्तिसंपूर्णं कृत्वा मानसमर्चनम्
नमः शिवाय महते सर्वलोकैकहेतवे
विश्वव्याप्तमिदं तेजः प्रकाशयति संततम्
भूलिंगममलं ह्येतद्दृश्यमध्यात्मचक्षुषा
अपरिच्छेद्यमाकारमंतरात्मनि योगिनः
अथवा शांकरी शक्तिः सत्याऽणोरप्यणीयसी
अणुस्ते करुणापात्रं महत्त्वं ध्रुवमश्नुते
स्वयमीश महादेव प्रसीद भुवनाधिक
इदं विज्ञाप्य विनयान्नमस्कृत्वा पुनःपुनः 1.3.1.2.
अथ विष्णुर्नवांभोदगंभीरध्वनिरभ्यधात्
जय त्रिभुवनाधीश जय गंगाधर प्रभो
अव्याजममितं शंभो कारुण्यं तव वर्द्धते
पालनं सर्वविद्यानां प्रापणं भूतिसंचयैः
शतानामपि मूर्तीनामेकामपि नवैः स्तवैः
त्वमेव त्वामलं वेत्तुं यदि वा त्वत्प्रसादतः
देवास्त्वदंशसंभूतिप्रभवो न भवन्ति किम्