यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः
रणांगणे कृतांतस्य संख्यावांश्च सदोजिरे
धर्मार्थ धनकोशश्च समृद्धबलवाहनः
स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय च 5.2.46.
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः
हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे
गोवृन्दगोपगोपालगोपीजनमनोहर
केशिहन्कैटभाराते कंसारे कमलापते
कृष्ण केशव कंजाक्ष कीनाशभयनाशन
पीतकौशेयवसन पद्मनाभ परात्पर
जन्मिनां जन्महरण जंजपूकौघनाशन
श्रीरंग शार्ङ्गकोदंड शौरे शीतांशुलोचन
देवकीहृदयानंद दंदशूकेश्वरेशय
विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय 5.2.46.
इत्यादीनि पवित्राणि नामानि प्रति मंदिरे
श्रूयंते यत्र कुत्रापि रम्याणि मधुविद्विषः
विचित्राणि चरित्राणि गीयंते च गृहेगृहे
ऋते हरिकथायास्तु नान्या वार्त्ता निशम्यते
तस्य राज्ञो भयाद्व्याधैररण्ये सुखचारिणः
हन्यंते क्वापि तद्भीत्या मत्स्यमांसाशिनाऽपि व
स्तनपानं न कुर्वंति संप्राप्य हरिवासरम् उपोषणपरा जाता अन्येषां का कथा नृणाम्
महामहोत्सवः सर्वैः पुरौकोभिर्वितन्यते
यो विष्णुभक्तिरहितः प्राणैरपि धनैरपि
अन्त्यजा अपि तद्राष्ट्रे शंखचक्रांकधारिणः 5.2.46.
शुभानि यानि कर्माणि क्रियंतेऽनुदिनं जनैः
विना मुकुंदगोविंद परमानंदमच्युतम् कृष्ण एव परो बंधुस्तस्यासीदवनीपतेः
एवं तस्मिन्महीपाले राज्ये सम्यक्प्रशासति