रत्नदीपैश्च नागेन्द्रः पद्मी च भुजगेश्वरः जामातरं समासाद्य शुभं परिमलालयम्
अन्योऽन्यं स्वजनास्ते तु मुदा विकसितेक्षणाः
त्रिलोचनस्य लिंगस्य वर्णयंतोऽपि गौरवम् भुक्त्वावन्तीं ततः प्राप्य संसेव्य च त्रिलोचनम्
गायन्गीतं सुमधुरं नागीभिः सहितः कृती
त्रिलोचनस्य महिमा कलौ देवेन गोपितः
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोऽप्यहो
एष ते कथितो देवि प्रभावः पापनाशनः
यस्य दर्शनमात्रेण कुलवृद्धिर्भवेद्ध्रुवम्
निशामय महा वि वीरेशाविर्भवं परम्
आसीदमित्रजिन्नाम राजा परपुरंजयः
यशोधनो वदान्यश्च सुधीर्ब्राह्मणदैवतः
विनीतो नीतिसंपन्नः कुशलः सर्वकर्मसु
कृतज्ञो मधुरालापः पापकर्मपराङ्मुखः
रणांगणे कृतांतस्य संख्यावांश्च सदोजिरे
धर्मार्थ धनकोशश्च समृद्धबलवाहनः
स्थैर्यधैर्यसमापन्नो देशकालविचक्षणः
वासुदेवांघ्रियुगले चेतोवृत्तिं निधाय च 5.2.46.
अलंघ्यशासनः श्रीमान्विष्णुभक्तिपरायणः
हरेराराधनान्युच्चैः प्रतिसौधं पदेपदे
गोवृन्दगोपगोपालगोपीजनमनोहर
केशिहन्कैटभाराते कंसारे कमलापते
कृष्ण केशव कंजाक्ष कीनाशभयनाशन
पीतकौशेयवसन पद्मनाभ परात्पर
जन्मिनां जन्महरण जंजपूकौघनाशन
श्रीरंग शार्ङ्गकोदंड शौरे शीतांशुलोचन
देवकीहृदयानंद दंदशूकेश्वरेशय
विष्वक्सेन विभो वीर वनमालिन्बलिप्रिय 5.2.46.
इत्यादीनि पवित्राणि नामानि प्रति मंदिरे
श्रूयंते यत्र कुत्रापि रम्याणि मधुविद्विषः
विचित्राणि चरित्राणि गीयंते च गृहेगृहे