स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत्
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ
जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम्
पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती
भवांतरे तृतीयेतः कन्ये चारायणस्य च
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै
अप्राप्तयौवनोरण्ये समिदाहरणाय वै
भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे 5.2.45.
अत एव प्रयत्नेन परिणेता विवर्जयेत
अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे
कृत्वा नानोपवासादिव्रतानि ब्राह्मणांगजे
फलचौर्यविपाकेन वानर त्वं तयोरभूत्
स च नारायणो विप्रः पितृशुश्रूषणे रतः
एवं भवांतरे चासीदेतयोः पतिरेव सः
प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः
विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः
जातिस्वभावचापल्यात्कीडंत्यौ च प्रदक्षिणम्
विचरंत्यावितः स्वैरं तत्र न्यग्रोधसंनिधौ 5.2.45.
भिक्षार्थं शिक्षिते तेन न प्लुतिर्न निवर्त्तनम्
अवन्तीवासपुण्येन त्रिलोचनस्य सेवया
अधुना तं पतिं प्राप्य विद्याधरकुमारकम्
यैरल्पमपि चावंत्या कृतं कर्म शुभावहम् त्रैलोक्येऽपि च सर्वस्मिञ्छ्रेष्ठाऽवन्तीपुरी सदा
ततोऽपि लिंगमोंकारं ततोऽप्यत्र त्रिलोचनम्
अतः सर्वप्रयत्नेनावन्त्यां पूज्यस्त्रिलोचनः
लिंगस्वरूपमासाद्य शुभं त्रिभुवनादपि स्वमातुः पुरतश्चोक्त्वा कृतकृत्या इवाभवन्
एकदा माधवे मासि सह सार्थाः समागताः
विरजस्के महाक्षेत्रे त्रिलोचनसमीपतः
विद्याधराय ताः कन्या नागैस्तिस्रोऽपि कल्पिताः 5.2.45.