जन्मांतरेपि मे भक्तिर्भवतीभिश्च तेन च
एतत्प्रभावतीस्तोत्रं ये पठिष्यंति मे पुरः
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः
नागकन्या ऊचुः जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता
ततः प्राक्तनवृत्तांत मेतस्यापि कृतात्मनः
इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम्
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम्
एषा रत्नावली पूर्वमासीत्पारावती खगी
प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम्
उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः 5.2.45.
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत्
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ
जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम्
पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती
भवांतरे तृतीयेतः कन्ये चारायणस्य च
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै
अप्राप्तयौवनोरण्ये समिदाहरणाय वै
भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे 5.2.45.
अत एव प्रयत्नेन परिणेता विवर्जयेत
अथर्षेः कस्यचिद्दैवादाश्रमे देवसन्निभे
कृत्वा नानोपवासादिव्रतानि ब्राह्मणांगजे
फलचौर्यविपाकेन वानर त्वं तयोरभूत्
स च नारायणो विप्रः पितृशुश्रूषणे रतः
एवं भवांतरे चासीदेतयोः पतिरेव सः
प्रासादस्यापि पार्श्वे तु न्यग्रोधश्च महानगः
विष्णुदेहजले तीर्थे क्रीडया च ममज्जतुः
जातिस्वभावचापल्यात्कीडंत्यौ च प्रदक्षिणम्
विचरंत्यावितः स्वैरं तत्र न्यग्रोधसंनिधौ 5.2.45.