लिंगादेव हि निर्गत्य गंगापन्नगमेखलः
उत्थाय ता विनिर्मथ्य लोचने श्रुतिसंगमे
यावत्पश्यंति पुरतः संभ्रमापन्नमानसाः
ववंदिरेऽथ ता बाला ज्ञात्वा लक्ष्मभिरीश्वरम्
जय शंभो जयेशान जय सर्वग सर्वद
जय जालंधरहर जय कंदर्पदर्पहृत् जय भक्तजनाधीश जय प्रमथ नायक
नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं नमोनमः
इत्युक्त्वा दंडवद्भूमौ प्रणिपेतुः कुमारिकाः
सुतो मंदारदाम्नश्च नाम्ना परिमलालयः
चिरं विद्याधरे लोके भोगान्भुक्त्वा समंततः 5.2.45.
जन्मांतरेपि मे भक्तिर्भवतीभिश्च तेन च
एतत्प्रभावतीस्तोत्रं ये पठिष्यंति मे पुरः
इत्युक्तवति देवेशे ताः कन्या हृष्टमानसाः
नागकन्या ऊचुः जन्मांतरे कथं सेवा चतुर्भिर्भवतः कृता
ततः प्राक्तनवृत्तांत मेतस्यापि कृतात्मनः
इति श्रुत्वा प्रणयतो बालोदीरितमीप्सितम्
प्राग्भवं भवतीनां च तस्यापि कथयाम्यहम्
एषा रत्नावली पूर्वमासीत्पारावती खगी
प्रासादे च ममैताभ्यामुषितं सुचिरं सुखम्
उपरिष्टादधस्ताच्च कृता भूरिप्रदक्षिणाः 5.2.45.
स्नातं चतुर्नदे तीर्थे पीतं तत्रांबु चासकृत्
एताभ्यां स्थिरचित्ताभ्यां मुदिता त्वमतीव हि
अमूभ्यां बहुशो दृष्टा मम मंगलदीपिकाः तिर्यग्योनिप्रभावेन न मृतौ मम संनिधौ
जंबूमार्गे मृतौ यस्मात्स्वर्गप्राप्तिकरे ध्रुवम्
पतिः पारावतोऽस्याश्च जातो विद्याधरांगजः इह जन्मनि कन्यासीत्पूर्वजन्म ब्रवीमि च
त्रिशिखस्योरगेंद्रस्य सुता चेयं कलावती
भवांतरे तृतीयेतः कन्ये चारायणस्य च
पित्रा चारायणेनापि ताभ्यां संप्रेरितेन वै
अप्राप्तयौवनोरण्ये समिदाहरणाय वै
भवानीगौतमीनाम्न्यौ ते तु चारायणांगजे 5.2.45.